Enter your Email Address to subscribe to our newsletters

बांदा, 08 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य बुन्देलखण्डक्षेत्रस्य विकासं शिक्षाव्यवस्थायाश्च सुदृढीकरणाय प्रतिबद्धया उत्तरप्रदेशस्य योगिसरकारेण बाँदा कृषिः प्रौद्योगिकी च विश्वविद्यालयाय पुनरेकं महत् उपहारं प्रदत्तम्। मुख्यमन्त्रिणः योगी आदित्यनाथस्य ‘उन्नतसंकल्पाः सुदृढाधारसंरचना च’ इति ध्येयस्य प्रवर्तनार्थं विश्वविद्यालयपरिसरे कोटिरूप्यकव्ययेन द्वयोः भव्ययोः अत्याधुनिकयोः छात्रावासयोः निर्माणकार्यम् आरब्धम् अस्ति। योगिसरकारस्य एषः प्रयासः बुन्देलखण्डक्षेत्रस्य छात्रछात्राणां कृते उच्चशिक्षायाः मार्गं सुगमं सुरक्षितं च कर्तुं मीलस्तम्भरूपेण सिद्धः भविष्यति।
योगिसरकारे कन्यानां अध्ययनं सुरक्षा सुविधा च सर्वदा प्राधान्येन परिगणिता अस्ति। अस्याः श्रृङ्खलायाः अन्तर्गतं विश्वविद्यालयस्य छात्रीणां कृते ११.७५ कोटिरूप्यकव्ययेन अत्याधुनिकः महिला छात्रावासः निर्मीयते। अयं छात्रावासः १०० शय्यासामर्थ्ययुक्तः भविष्यति। यस्मिन् छात्रीणां निवासभोजनसुरक्षादीनां सुदृढव्यवस्था भविष्यति। सर्वकारेण अस्याः परियोजनायाः कार्यं त्वरितगत्या प्रवर्त्य १४ फेब्रुवरी २०२७ पर्यन्तं छात्रीभ्यः समर्पयितुं लक्ष्यं निर्धारितम् अस्ति, येन दूरस्थप्रदेशेभ्यः आगच्छन्त्यः कन्याः परिसर एव सुरक्षितं श्रेष्ठं च वातावरणं प्राप्नुयुः।
विश्वविद्यालये अध्ययनरताः छात्राः अपि अधुना निवासचिन्तायाः मुक्तिं प्राप्स्यन्ति। योगिसरकारेण छात्राणां कृते १९.७३ कोटिरूप्यकव्ययेन विशालस्य पुरुषछात्रावासस्य निर्माणकार्यं प्रारब्धम्। अस्मिन् अत्याधुनिके छात्रावासे समग्रतः २०० कक्षाः भविष्यन्ति, ये आधुनिकसुविधाभिः पूर्णतया समन्विताः भविष्यन्ति। मुख्यमन्त्री योगी आदित्यनाथः कार्यदायिसंस्थां निर्देशितवान् यत् अस्य भव्यस्य पुरुषछात्रावासस्य निर्माणकार्यं सर्वथा १० नवम्बर २०२७ पर्यन्तं सम्पन्नं भवेत्।
सार्वजनिकधनस्य समुचितोपयोगः समये कार्यसमापनं च योगिसरकारस्य विशेषपरिचायकौ स्तः। भ्रष्टाचारस्य शैथिल्यस्य च प्रति शून्यसहिष्णुतानीतिं अनुसृत्य अस्य निर्माणकार्यस्य दायित्वं सीएनडीएस संस्थायै समर्पितम् अस्ति। निर्धारितकालसीमायाः अन्तर्गतं उच्चगुणवत्तया च छात्रावासयोः निर्माणार्थं निर्देशाः प्रदत्ताः सन्ति। एतेन अत्याधुनिकाधारसंरचनया न केवलं बाँदा कृषिविश्वविद्यालयस्य प्रतिष्ठा वर्धिष्यते, अपितु बुन्देलखण्डक्षेत्रस्य विकासाय अपि नूतना तीव्रगामिनी च गतिर्दास्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani