विद्या भारतीसंबद्धायाश्शिशुशिक्षासमितेः वार्षिकी सभा संपन्ना
जोरहाटम् (असमः), 08 जूनमासः (हि.स.)। विद्याभारत्याः सम्बद्धया संस्थया शिशुशिक्षासमित्या असमराज्यस्य वार्षिकसामान्यसभायाः आयोजनं जोरहाटस्थस्य गढमूरक्षेत्रस्य शङ्करदेवविद्यानिकेतने कृतम्। सोमवासरे प्रदत्तसूचनानुसारं सप्तमजूनमासस्य सायंकाले सम्पन्ना
Image Related to the Vidya Bharati-Affiliated Shishu Shiksha Samiti, Assam Annual General Meeting.


जोरहाटम् (असमः), 08 जूनमासः (हि.स.)।

विद्याभारत्याः सम्बद्धया संस्थया शिशुशिक्षासमित्या असमराज्यस्य वार्षिकसामान्यसभायाः आयोजनं जोरहाटस्थस्य गढमूरक्षेत्रस्य शङ्करदेवविद्यानिकेतने कृतम्। सोमवासरे प्रदत्तसूचनानुसारं सप्तमजूनमासस्य सायंकाले सम्पन्नायाः अस्याः सभायाः शुभारम्भः मातुः सरस्वत्याः पुरतः दीपप्रज्ज्वलनेन असममहिलाविश्वविद्यालयस्य कुलपतिना डॉ. अजन्ताबूढागोहाईं राजकोंवरेण, राष्ट्रियस्वयंसेवकसंघस्य उत्तरासमप्रान्तस्य प्रान्तप्रचारकेण नृपेनबर्मणा, विद्याभारत्याः पूर्वोत्तरक्षेत्रस्य संगठनमन्त्रिणा डॉ. पवनतिवारिणा, सचिवेन डॉ. जगदीन्द्ररायचौधुरिणा, शिशुशिक्षासमितेः असमराज्यस्य अध्याक्षेण कुलेन्द्रकुमारभागवत्या तथा महासचिवेन जगन्नाथराजवंशिना च कृतः।

अस्मिन् अवसरे शिशुशिक्षासमितेः असमराज्यस्य उपाध्यक्षौ डॉ. अलकानन्दबरुवा अनिमाशर्मा च, विद्याभारत्याः पूर्वोत्तरक्षेत्रस्य वरिष्ठसदस्यः योगेन्द्रसिंहसिसोदिया इत्यादयः अनेकाः शिक्षाविदः कार्यकर्तारश्च उपस्थिताः आसन्।

गुवाहाटीनगरस्य जूरोडस्थितात् कार्यालयात् माध्यमेभ्यः सूचना प्रदाय शिशुशिक्षासमितेः असमराज्यस्य प्रचारसंयोजकः मुकुटेश्वरगोस्वामी अद्य अवदत् यत् समितेः अध्यक्षस्य कुलेन्द्रकुमारभागवत्याः अध्यक्षतायाम् आयोजितायां सभायां महासचिवः जगन्नाथराजवंशी सभायाः उद्देश्यम् प्रकाशितवान् तथा पूर्ववार्षिकसामान्यसभायाः प्रस्तावान् कार्यवृत्तं च प्रस्तुतवान्।

मुख्यातिथिरूपेण सभां सम्बोधयन्ती डॉ. अजन्ताबूढागोहाईं राजकोंवर समन्वितशिक्षायाः आधुनिकशिक्षणव्यवस्थायाः तथा अटल टिङ्करिङ्ग प्रयोगशालायाः माध्यमेन विद्यार्थिषु उत्कृष्टताविकासस्य आवश्यकतायां विशेषं बलम् अददात्। सा अवदत् यत् तस्याः विश्वविद्यालयेन विकसितस्य ‘माया’ नामकस्य रोबोटस्य माध्यमेन बालकेभ्यः शिक्षा प्रदाय उल्लेखनीया सफलता प्राप्ता अस्ति।

सभायां शिशुशिक्षासमितेः असमराज्यस्य गतवर्षस्य आयव्ययविवरणं तथा आगामिवर्षस्य वित्तीयप्राक्कलनम् असमप्रकाशनभारत्याः सचिवः दीपाङ्करबोरः प्रस्तुतवान्। एतदतिरिक्तं विद्याभारत्याः विभिन्नेषु केन्द्रीयाधारभूतविषयेषु, अभिलेखागारे, प्रशिक्षणे, मातृभारत्यां, शिशुवाटिकायां तथा क्रीडाकलापेषु च पावरपॉइण्टप्रस्तुत्या विस्तृता सूचना प्रदत्ता।

शिशुशिक्षासमितेः असमराज्यस्य अन्तर्गतं सञ्चालितेषु शङ्करदेवशिशुनिकेतनेषु दीर्घकालपर्यन्तं प्रधानाचार्यारूपेण संकुलप्रमुखरूपेण च स्वदक्षतायाः, ईमानदारितायाः, अनुशासनस्य, नियमिततायाः, कर्तव्यनिष्ठायाश्च कृते गढमूरजोरहाटस्य पूर्वप्रधानाचार्या वर्णालीबरुवा तथा नारायणपुरलखीमपुरस्य प्रधानाचार्यः विनोदकृष्णशर्मा विशेषरूपेण सम्मानितौ।

अस्यामेव सभायां शिशुशिक्षासमितेः असमराज्यस्य त्रैमासिकी ईपत्रिका ‘महाबाहुसंवाद’ इत्यस्याः वार्षिकाङ्कस्य विमोचनं कृतम्। सहैव उच्चविद्यालयशिक्षान्तपरीक्षायां गतत्रिंशद्वर्षेषु १९९६ तः २०२६ पर्यन्तं शीर्षस्थानप्राप्तविद्यार्थिनां शैक्षिकयात्रायाः आधारेण निर्मितस्य महत्त्वपूर्णस्य दस्तावेजस्य अपि लोकार्पणं कृतम्।

अन्ते शिशुशिक्षासमितेः असमराज्यस्य अध्यक्षः कुलेन्द्रकुमारभागवती सर्वेभ्यः उपस्थितेभ्यः शुभकामनाः प्रदत्तवान् तथा गढमूरनिकेतनस्य आचार्येभ्यः आचार्याभ्यः विद्यार्थिभ्यः समस्तकार्यकर्तृभ्यश्च धन्यवादं ज्ञापितवान्।

----------

Hindusthan Samachar / Dheeraj Maithani