Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 08 जूनमासः (हि.स.)।बस्तरलोकसभाक्षेत्रस्य सांसदः महेशकश्यपस्य पहलया संसदीयसङ्कुलविकासपरियोजनायाः अन्तर्गतं विकासखण्डस्य बकावण्डस्य दूरस्थे ग्रामे मोहलई इति स्थाने सोमवासरे युवाचेतनाकार्यक्रमस्य आयोजनं कृतम्। अस्य कार्यक्रमस्य मुख्योद्देश्यः केन्द्रराज्यसर्वकारयोः जनकल्याणकारीयोजनाः बस्तरस्य अन्तिमसीमायां स्थितान् जनान् यावत् प्रापयित्वा तान् विकासस्य मुख्यधारया संयोजयितुम् आसीत्।
सांसदः महेशकश्यपः उक्तवान् यत् योजनानां वास्तविकः लाभः तदैव सार्थकः भवति यदा सः पात्रहितग्राहिभ्यः प्राप्यते। तेन उक्तं यत् अस्य कार्यक्रमस्य माध्यमेन नवविंशतिः विभिन्नविभागानां योजनानां विषये एकस्मिन् एव मञ्चे सूचना प्रदत्ता, येन जागरूकतायाः अभावात् कोपि पात्रः जनः योजनाभ्यः वञ्चितः न भवेत्।
सांसदः कश्यपः बस्तरस्य समृद्धेः उल्लेखं कुर्वन् उक्तवान् यत् अत्र विद्यमानाः प्राकृतिकसंसाधनानि वनोपजाश्च यथा इमली, महुआ, टोरा इत्यादयः स्थानीयार्थव्यवस्थायै नूतनां दिशं दातुं शक्नुवन्ति। तेन इमलीप्रसंस्करणकेन्द्रस्य, टोरातैलघान्याः तथा लघुउद्योगानां स्थापनया व्यापकस्तरे सकारात्मकपरिवर्तनं भविष्यतीति उक्तम्। एतेषां उद्योगानां माध्यमेन स्थानीययुवकेभ्यः महिलाभ्यश्च रोजगारस्य नूतनाः अवसराः उत्पत्स्यन्ति, येन ग्रामीणार्थव्यवस्था सुदृढा भविष्यति तथा च युवानां पलायनं निरुद्धं भविष्यति।
सांसदः कश्यपः उक्तवान् यत् लघुसमूहाः स्वरोजगारम् अवलम्ब्य आर्थिकरूपेण सशक्ताः भवितुं शक्नुवन्ति। अनेन बस्तरस्य दूरस्थग्रामेषु विकासः, जागरूकता, आत्मनिर्भरता च नूतनसङ्कल्परूपेण उदेति।
ग्रामीणजनाः अस्याः पहलायाः प्रशंसां कुर्वन्तः उक्तवन्तः यत् स्वातन्त्र्यप्राप्तेः दशकेभ्यः अनन्तरं प्रथमवारं कश्चन जनप्रतिनिधिः तेषां ग्रामं प्राप्त्य विभिन्नविभागीययोजनानां विस्तृतां सूचना प्रदत्तवान् तथा च तान् स्वाधिकाराणां विषये जागरूकान् कृतवान्।
अस्मिन् अवसरे जनपदाध्यक्षः सोनबारीभद्रे, उपाध्यक्षः तरुणपाण्डेयः, भाजपाजिलामहामन्त्री परिसरामबेसरा, मण्डलमहामन्त्री अमरदेवभारती, विषमठाकुरः, फूलल्केश्वरपाण्डेयः, नवरत्नकर्मा इत्यादयः स्थानीयजनप्रतिनिधयः, जनपदपञ्चायतस्य मुख्यकार्यपालनाधिकारी, कृषि मत्स्य उद्यानिकी तथा क्रेडाविभागस्य अधिकारिणः, महिलासमूहाः तथा बहुसंख्यकाः ग्रामीणकृषकाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani