इंडीगठबंधनस्योपवेशने भाजपादलस्य प्रणोदः, कथितं यत् - दुर्बला संजाता भूमिः, आगामिनि समये कारयाने भविष्यति उपवेशनम्
नव दिल्ली, 08 जूनमासः (हि.स.)। इंडी गठबन्धनस्य उपवेशनं प्रति भारतीयजनतापार्टीपक्षतः कटाक्षः कृतः यत् अस्य गठबन्धनस्य राजनैतिकाधारभूमिः दुर्बला जाता अस्ति। सोमवासरे भाजपा मुख्यालये आयोजितायां पत्रकारवार्तायां सांसदः डॉ. संबित पात्रः अवदत् यत् — “ए
भाजपा सांसद डॉ संबित पात्रा


नव दिल्ली, 08 जूनमासः (हि.स.)।

इंडी गठबन्धनस्य उपवेशनं प्रति भारतीयजनतापार्टीपक्षतः कटाक्षः कृतः यत् अस्य गठबन्धनस्य राजनैतिकाधारभूमिः दुर्बला जाता अस्ति। सोमवासरे भाजपा मुख्यालये आयोजितायां पत्रकारवार्तायां सांसदः डॉ. संबित पात्रः अवदत् यत् — “एषा तेषां उपवेशनं न, अपितु इंडी गठबन्धनस्य एकः नाटकीयः प्रपञ्चः प्रवर्तमानः अस्ति।

एते प्रत्येकं तृतीयमासे निर्वाचनं पराजेष्यन्ति, प्रत्येकं द्वितीयमासे च तेषां उपवेशनं भविष्यति।

राहुलगान्धी निर्वाचनपराजयानां शतकं सम्पादितवान्, किन्तु अद्य सः तथैव हास्यं कुर्वन् दृश्यते यथा कश्चन महद्दुर्गं विजित्य आगतः स्यात्।”

संबित पात्रेण उक्तं यत् एषः गठबन्धनः प्रत्येकद्विमासे उपवेशनं कर्तुं योजनां निर्माति। पूर्वं इंडी गठबन्धनस्य उपवेशनानि बृहद् स्तरस्य आसन्, यथा बेङ्गलूरुस्थिते क्रीडाङ्गणे, यत्र सर्वे नेतारः एकत्रिताः भूत्वा परस्परं हस्तग्रहणं कुर्वन्तः तिष्ठन्ति स्म। अधुना तानि उपवेशनानि केवलम् एकस्मिन् कक्षे सीमितानि जातानि सन्ति, यथा कॉन्स्टिट्यूशन क्लब ऑफ इण्डिया इत्यत्र, तथा च तेषु पूर्ववत् जनसमर्थनं जनसमूहः वा न दृश्यते। “तृतीयचतुर्थोपवेशनपर्यन्तं मम मन्ये एतानि उपवेशनानि कस्यचित् वाहनस्य अन्तरे एव आरभिष्यन्ते।”

संबित पात्रः परिहासपूर्वकं उक्तवान् यत् उपवेशने अखिलेश यादवः अपि उपस्थितः आसीत्। यदा तेन ममता बनर्जी दृष्टा भविष्यति, तदा सः सम्भवतः चिन्तितवान् भविष्यति — “अल्पकालानन्तरं ममापि एषैव दशा भविष्यति।”

सः अग्रे उक्तवान् यत् यत्र राहुलगान्धी उपस्थितः भवति, तत्र कस्यापि राजनैतिकभविष्यं सुरक्षितं न भवति।

संबित पात्रेण उक्तं यत् तमिलनाडुराज्ये काँग्रेसपक्षः शीघ्रमेव अन्येन दलेन सह गठबन्धनं कृत्वा शासनं निर्मितवान्। पश्चिमबङ्गे पराजयानन्तरं तु विपक्षः प्रश्नान् उत्थापयति तथा एस्-आइ-आर इत्यस्य विषये विलापं करोति। एस्-आइ-आर तमिलनाडुराज्ये अपि अभवत्, केरलराज्ये अपि अभवत्, तथापि शासनं निर्मितम्; किन्तु पश्चिमबङ्गे पराजिताः सन्तः अधुना एस्-आइ-आर इत्यस्य निन्दां कुर्वन्ति, तस्य विषये विलापं कुर्वन्ति। भारतस्य जनता सर्वम् अवलोकयति।

यदि वस्तुतः किमपि अपहृतं जातम् अस्ति, तर्हि इंडी गठबन्धनस्य अस्तित्वमेव अपहृतं जातम्।

राहुलगान्धिं लक्ष्यीकृत्य सः उक्तवान् यत् विपक्षीयदलानां जनाधारे दृढता नास्ति, जनता च तान् समर्थनं न दत्तवती, यतः तेषां विश्वसनीयता समाप्ता जाता। इंडी गठबन्धनस्य एतदुपवेशनं “राजनैतिकपाखण्डम्” अस्ति। सः उक्तवान् यत् विपक्षीयदलानि सर्वदलीयोपवेशनस्य मागं कुर्वन्ति। किन्तु पूर्वस्मिन् समये यदा नारीसशक्तीकरणार्थं सर्वदलीयोपवेशनम् आहूतम् आसीत्, तदा एतेषु कापि राजनैतिकपार्टी उपस्थितं नासीत्; सर्वे अनुपस्थिताः आसन्। किन्तु अधुना ते पत्रकारवार्तां कृत्वा सर्वदलीयोपवेशनस्य मागं कुर्वन्ति।

जनतया एते सम्पूर्णतया निष्क्रियाः कृताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani