Enter your Email Address to subscribe to our newsletters

नवदेहली, ०८ जूनमास: (हि.स.)। भारतीयजनतापक्षेन रविवासरे कर्नाटक-मध्यप्रदेशयोः राज्यसभा-स्थानानां निर्वाचनार्थं अभ्यर्थिनां नामानि घोषितानि। मध्यप्रदेशतः महेश-केवट-महोदयः तथा कर्नाटकतः प्रो.एम.नागराज-महोदयः अभ्यर्थिरूपेण चयनितौ।
भाजपा-पक्षस्य विज्ञप्तौ उक्तं यत् केन्द्रीय-निर्वाचन-समित्याः कर्नाटक-मध्यप्रदेशयोः राज्यसभा-निर्वाचनार्थं तथा कर्नाटक-विधानपरिषदः द्विवार्षिक-निर्वाचनम् २०२६ इत्यस्य कृते चतुर्णां नाम्नां अनुमोदनं प्रदत्तम्। तेषु मध्यप्रदेशतः महेश-केवट-महोदयः अपि अस्ति। सः सम्प्रति मध्यप्रदेश-मत्स्यजीवी-कल्याण-मण्डलस्य अध्यक्षः अस्ति।
तथैव कर्नाटक-विधानपरिषदः द्विवार्षिक-निर्वाचनार्थं लिङ्गराज-पाटील-महोदयः तथा रघु-कौटिल्य-महोदयः अभ्यर्थितया घोषितौ। सोमवासरः नामाङ्कन-पत्र-समर्पणस्य अन्तिमः दिवसः अस्ति।
उल्लेखनीयं यत् राज्यसभा-स्थानानां निर्वाचनं दशसु राज्येषु भविष्यति, यत्र वर्तमान-सदस्यानां कार्यकालः २१ जूनतः १९ जुलाई-पर्यन्तं विभिन्न-तिथिषु समाप्तिं गच्छति। द्विवार्षिक-निर्वाचनार्थं १८ जूनमासे मतदानं भविष्यति तथा तस्मिन्नेव दिने परिणामाः अपि घोषिताः भविष्यन्ति। नामाङ्कन-पत्र-समर्पणस्य अन्तिमा तिथिः ०८ जूनमास: इति निर्धारितास्ति।
Hindusthan Samachar / Divya Ranjan