Enter your Email Address to subscribe to our newsletters

उज्जयिनी, ०८ जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां क्षिप्रा-नद्याः बृहत्सेतु-स्थिते पञ्चदशनाम-जूना-अखाडा-इत्यस्य जगद्गुरोः पञ्चानन्द-गिरि-महाराजस्य कामाख्या-तन्त्रपीठ-आश्रमे त्रिदिवसीय-धार्मिक-कार्यक्रमान्तर्गतं कामाख्या-शक्तिपीठेन सञ्चालितस्य द्विसप्तति-घण्टात्मकस्य (७२-होरात्मकस्य) अखण्ड-यज्ञस्य समापनं सोमवासरे भण्डार-कार्यक्रमेण सह अभवत्। अस्मिन् कार्यक्रमे जगद्गुरुः शङ्कराचार्यः स्वामी अधोक्षजानन्द-देवतीर्थ-महाराजः, गोवर्धन-पीठस्य प्रतिनिधिश्च, सहभागी अभवत्।
आयोजनस्य निमित्तम् आश्रम-परिसरः आकर्षक-सज्जया अलङ्कृतः आसीत्। नितेश-कुमार-महोदयेन उक्तं यत् शङ्कराचार्य-स्वामिनः अधोक्षजानन्द-देवतीर्थ-महाराजस्य आगमनसमये जूना-अखाडस्य हिमालय-गिरि-महाराजस्य सान्निध्ये तस्य स्वागतं कृतम्। ततः परं शङ्कराचार्यः द्विसप्तति-होरात्मक-अखण्ड-यज्ञे सहभागी अभवत्। यज्ञे आहुतयः समर्प्य विश्व-शान्तेः, सुख-समृद्धेः तथा जनकल्याणस्य कामना कृता।
अस्मिन्नवसरे अधोक्षजानन्द-देवतीर्थ-महाराजः उक्तवान् यत् “बाबा-महाकालस्य आह्वानम् आगतम्, अतः वयम् उज्जयिनीम् आगतवन्तः। त्रिदिवसीय-यज्ञ-कार्यक्रमे सहभागिनः अभवाम।”
कार्यक्रमे पटियालातः जगद्गुरुः भुवनेश्वर-नन्दगिरि-महाराजः, असम-प्रदेशस्य डिब्रूगढ़-नगरात् त्रिवेणीपुरी-महाराजः, जूनागढात् जीतू-भारतीय-थानापति-महाराजः, कन्हैया-पुरी-थानापति-महाराजः, पुजारी सूरज-गिरि-महोदयः, जैसलमेरतः पूर्व-सरपञ्चः सुजान-सिंह-हड्डा-महोदयः, रेखा-वैष्णव-महोदया, भगवान-दास-महोदयः, निलेश-सोलंकी-महोदयश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan