सुशासन तिहारे अद्य मुख्यमंत्रिणः सायस्य भ्रमणं, कस्मिंश्चित् ग्रामे उत्तर्तुं शक्नोति उदग्रविमानम्
रायपुरम् ,8 जूनमासः (हि.स.)।छत्तीसगढ़राज्ये सुशासनस्य भूमिस्तरपर्यन्तं प्रसारणस्य उद्देशेन सञ्चाल्यमानस्य सुशासन तिहार २०२६ इत्यस्य अन्तर्गतं अद्य सोमवासरे मुख्यमंत्री विष्णुदेव साय महोदयः विभिन्नेषु जिल्लेषु भ्रमणे भविष्यति। मुख्यमन्त्रिणः कार्यक्
मुख्यमंत्री विष्णुदेव साय


रायपुरम् ,8 जूनमासः (हि.स.)।छत्तीसगढ़राज्ये सुशासनस्य भूमिस्तरपर्यन्तं प्रसारणस्य उद्देशेन सञ्चाल्यमानस्य सुशासन तिहार २०२६ इत्यस्य अन्तर्गतं अद्य सोमवासरे मुख्यमंत्री विष्णुदेव साय महोदयः विभिन्नेषु जिल्लेषु भ्रमणे भविष्यति। मुख्यमन्त्रिणः कार्यक्रमः विशेषरूपेण जनसंपर्के जनसमस्यानां च शीघ्रसमाधाने केन्द्रितः भविष्यति।

प्रशासनिकस्रोतसां अनुसारं मुख्यमंत्री कस्मिन्नपि ग्रामे आकस्मिकरूपेण आगन्तुं शक्नोति, येन कारणेन जिल्लाप्रशासनाय स्थानीयाधिकारिभ्यश्च सतर्कतायाः निर्देशाः प्रदत्ताः सन्ति।

भ्रमणस्य समये मुख्यमंत्री ग्रामेषु आयोजितेषु जनसमस्या निवारण शिविरेषु सहभागित्वं कृत्वा सामान्यजनैः सह प्रत्यक्षसंवादं करिष्यति। सः केन्द्रराज्यसरकारयोः विभिन्नानां जनकल्याणकारीणां योजनानां वास्तविकस्थितेः प्रतिसंसूचनां ग्रहीष्यति तथा च लाभार्थिभ्यः योजनानां प्रभावस्य विषये संसूचनां प्राप्स्यति।

तदनन्तरं मुख्यमंत्री अधिकारिभिः सह समीक्षा उपवेशनं करिष्यति, यस्मिन् विकासकार्यानां प्रगतिः, लंबितविषयाः तथा जनशिकायतानां निराकरणस्य स्थितिः इति विषयेषु चर्चा भविष्यति।

आदिवसं प्रशासनिकजनसंपर्ककार्यक्रमाणां पश्चात् मुख्यमंत्री सायंकाले पञ्चवादने रायपुरस्थे जोरा मॉल इति स्थले ‘भाग्य विधाता’ इति चलच्चित्रस्य प्रदर्शनकार्यक्रमे सहभागित्वं करिष्यति। अस्मिन् अवसरे चलच्चित्रसम्बद्धाः कलाकाराः, निर्मातारः अन्ये च विशिष्टातिथयः अपि उपस्थिताः भवितुमर्हन्ति।

Hindusthan Samachar / Dheeraj Maithani