Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 08 जूनमासः (हि.स.)।गुरुद्वारप्रबन्धक समितेः साकची इत्यस्य कोषाध्यक्षः सरदार जसबीर सिंह गांधी महोदयः सोमवासरे निधनं प्राप्तवान्। तस्य वयः पञ्चषष्टिवर्षाणि आसीत्। कतिपयदिनभ्यः सः अस्वस्थः आसीत् तथा च तस्य उपचारः रायपुरे प्रचलति स्म। स्वपश्चात् तेन त्रयाणां सन्ततीनां सहितं पूर्णं कुटुम्बं परित्यक्तम्।
मिलनसारस्वभावस्य सरदार जसबीर सिंह गांधी महोदयस्य निधनस्य सूचना प्राप्तमात्रेण जमशेदपुरस्य सिखसमाजे शोकलहरी प्रसृता। गुरुद्वारा प्रबन्धक समितेः साकची इत्यस्य प्रधानः सरदार निशान सिंह महोदयः शोकं व्यक्तीकुर्वन् अवदत् यत् सरदार जसबीर सिंह गांधी समितेः अत्यन्तं सक्रियः समर्पितश्च सदस्यः आसीत्।
तस्य सहजः मिलनसारश्च स्वभावः सर्वान् आकर्षयति स्म। तस्य आकस्मिकप्रस्थानं सम्पूर्णस्य सिखसमाजस्य कृते अपूरणीया क्षतिः अस्ति। वाहेगुरुः तस्य आत्मनः शान्तिं प्रददातु।
तस्य अन्तिमयात्रा मङ्गलवासरे तस्य निवासस्थानात् निर्गमिष्यति। अन्त्यसंस्कारः मङ्गलवासरे प्रातः दशवादने विधास्यते।
जमशेदपुरस्य विभिन्नैः सिखसङ्गठनैः सामाजिकसङ्गठनैश्च सरदार जसबीर सिंह गांधिनो निधनविषये गहनः शोकः व्यक्तीकृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani