Enter your Email Address to subscribe to our newsletters

नैनीतालनगरम्, ०८ जूनमासः (हि.स.)। कुमाऊँ-विश्वविद्यालयस्य क्रीडा-परिषदः वर्षयोः २०२४-२५ तथा २०२५-२६ इत्यनयोः सभायां विविधासु राष्ट्रिय-अन्तरविश्वविद्यालयीय-क्रीडा-प्रतियोगितासु उत्कृष्ट-प्रदर्शनं कृतवन्तः क्रीडकाः पदकैः ट्रैकसूट-वस्त्रैश्च सम्मानिताः। तदनन्तरं अग्रिम-सत्राय क्रीडा-गतिविधीनां विस्तारः तथा क्रीडकानां कृते उत्तम-सुविधानां प्रावधानं विषये विचार-विमर्शः कृतः।
कुमाऊँ-विश्वविद्यालयस्य हर्मिटेज-परिसरे आयोजितायां सभायां विश्वविद्यालयस्य क्रीडा-सचिवः क्रीडा-अधिकारी च डॉ.सन्तोष-कुमार-महोदयः गत-द्विवर्षीय-क्रियाकलापानां प्रतिवेदनं प्रस्तुतवान्। वर्षयोः २०२४-२५ तथा २०२५-२६ इत्यनयोः सर्वाधिक-अङ्क-प्राप्त्यर्थम् एमबीपीजी-महाविद्यालयः हल्द्वानी कुलपति-पुरस्कारेण सम्मानितः। सरदार-भगतसिंह-राजकीय-स्नातकोत्तर-महाविद्यालयः रुद्रपुरम् द्वितीय-स्थाने तथा डीएसबी-परिसरः नैनीतालम् तृतीय-स्थाने स्थितौ।
एतेन सह वैशाली-पाण्डे (नैनीतालम्) तथा योगेश-पाण्डे (रुद्रपुरम्) इत्येताभ्यां वर्षस्य २०२३-२४ सर्वश्रेष्ठ-क्रीडक-रूपेण कुलपति-स्वर्ण-पदकं प्रदत्तम्। तथैव वर्षयोः २०२४-२५ तथा २०२५-२६ कृते कशिश-शर्मा, योगेश-पाण्डे, शिवानी तथा विक्की-मुखिया इत्येते कुलपति-स्वर्ण-पदकेन सम्मानिताः। सभायां क्रीडा-प्रशिक्षकाणां नियुक्तिः, जनपद-क्रीडा-विभागेन भारतीय-क्रीडा-प्राधिकरणस्य प्रशिक्षण-संस्थाभिश्च सह समझौता-ज्ञापनस्य सम्पादनं च विषये अपि सहमतिर्निर्मिता।
अस्मिन्नवसरे प्रो.संजय-पन्तः, कार्यपरिषदः सदस्यः अरविन्द-पाडियारः, डॉ.सन्दीप-तिवारी, वित्त-नियन्त्रकः कमलेश-भण्डारी, पूर्व-क्रीडा-अधिकारी डॉ.नागेन्द्र-शर्मा तथा अन्ये पदाधिकारी उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं प्रो. ललित-तिवारी-महोदयेन कृतम्।
Hindusthan Samachar / Divya Ranjan