Enter your Email Address to subscribe to our newsletters

लखनऊ, 08 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सोमवासरे स्वसामाजिकमाध्यमप्रकाशने उक्तवान् यत् दीर्घकालपर्यन्तं कोटिशः निर्धनपरिवाराणां कृते स्वकीयं गृहं केवलम् एकम् अपूर्णं स्वप्नम् आसीत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना एतत् स्वप्नं सर्वकारस्य प्राथमिकतारूपेण स्वीकृतम्। तेन निर्धनजनानां जीवनस्य अस्याः महत्याः चिन्तायाः गम्भीरतां ज्ञात्वा प्रधानमन्त्रि-आवासयोजनायाः माध्यमेन तस्याः निवारणस्य सङ्कल्पः कृतः।
उपमुख्यमन्त्री लिखितवान् यत् अद्य सम्पूर्णदेशे चत्वारिंशत्कोट्यधिकपरिवारेभ्यः पक्कगृहाणि प्राप्तानि सन्ति। अस्मिन् विषये उत्तरप्रदेशः देशे अग्रणी अस्ति। कोटिशः मातृभ्यः, भगिनीभ्यः, वृद्धेभ्यः, बालकेभ्यश्च सुरक्षितजीवनस्य नूतनः विश्वासः प्राप्तः, सहैव नूतनात्मविश्वासेन अग्रे गन्तुं अवसरोऽपि प्राप्तः। स्वकीयं गृहं केवलं निवासस्थानस्य परिचयं न ददाति, अपितु सुरक्षा, आत्मविश्वासः, उत्तमभविष्यस्य विश्वासश्च ददाति। यदा शिरसि दृढा छादनव्यवस्था भवति, तदा पीढीनां भविष्यं परिवर्तते।
एषैव मोदीसर्वकारस्य द्वादशवर्षीयकार्यकालस्य परिचायकः अस्ति, यत्र निर्धनकल्याणं प्रत्यक्षरूपेण दृश्यते। प्रधानमन्त्रिणः नेतृत्वे दृढगृहं निर्धनजनस्य सम्मानस्य, सुरक्षायाः, आत्मविश्वासस्य च प्रतीकं जातम् अस्ति। एष एव परिवर्तमानः भारतदेशः अस्ति, यत्र स्वप्नेभ्यः अपि दृढच्छादनं प्राप्यते तथा च भविष्याय अपि सुदृढाधारः निर्मीयते। सहैव प्रत्येकपरिवाराय गौरवेण जीवनं यापयितुं अवसरः अपि प्राप्तः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani