ब्रिक्स-सम्मेलने सहभागितार्थम् इन्दौरम् आगताः विदेशी-अतिथयः ‘५६-दुकान’-स्थले मालवा-प्रदेशस्य स्वादिष्ट-व्यञ्जनानाम् आस्वादम् अकुर्वन्
इन्दौरनगरम्, ०८ जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे ०९ जूनमासतः १३ जूनमासपर्यन्तम् आयोज्यमाने ब्रिक्स-देशानां महत्त्वपूर्णे कृषि-सम्मेलने सहभागितार्थं विदेशी-अतिथयः सोमवासरे इन्दौरम् आगतवन्तः। राज्य-सर्वकारेण तेषां स्वागतं पुष्पवृष्ट्या कृतम्
इंदौर में विदेशी मेहमान 56 दुकान में मालवा के स्वादिष्ट व्यंजनों का लुत्फ उठाते हुए


इंदौर में विदेशी मेहमान 56 दुकान में मालवा के स्वादिष्ट व्यंजनों का लुत्फ उठाते हुए


इंदौर में विदेशी मेहमान 56 दुकान में मालवा के स्वादिष्ट व्यंजनों का लुत्फ उठाते हुए


इंदौर में विदेशी मेहमान 56 दुकान में मालवा के स्वादिष्ट व्यंजनों का लुत्फ उठाते हुए


इंदौर में विदेशी मेहमान 56 दुकान में मालवा के स्वादिष्ट व्यंजनों का लुत्फ उठाते हुए


इन्दौरनगरम्, ०८ जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे ०९ जूनमासतः १३ जूनमासपर्यन्तम् आयोज्यमाने ब्रिक्स-देशानां महत्त्वपूर्णे कृषि-सम्मेलने सहभागितार्थं विदेशी-अतिथयः सोमवासरे इन्दौरम् आगतवन्तः। राज्य-सर्वकारेण तेषां स्वागतं पुष्पवृष्ट्या कृतम्। सायंकाले ते इन्दौरस्य प्रसिद्धे ‘५६-दुकान’-स्थले मालवा-प्रदेशस्य स्वादिष्ट-व्यञ्जनानाम् आस्वादम् अकुर्वन्।

सायंकाले ब्राजील, इथियोपिया, इण्डोनेशिया, दक्षिण-अफ्रिका इत्यादि-देशेभ्यः आगताः अतिथयः ‘५६-दुकान’-स्थले मालवीय-व्यञ्जनानि यथा शिंकजी, दधि-बडा, शाही-पोहा, कचौरी, पेटिस, साबूदान-खिचडी इत्यादीनाम् आस्वादम् अकुर्वन्। व्यञ्जन-निर्माणे स्वच्छतायाः विशेषं ध्यानं धृतम्। तेषां स्वागतार्थं शास्त्रीय-सङ्गीतस्य कार्यक्रमोऽपि आयोजितः।

इतिहासकारः जफर-अन्सारी-महोदयः तथा श्रवण-जोशी-महोदयः विदेशी-अतिथिभ्यः मालवीय-भोजन-परम्परायाः विषये विस्तृतां सूचनाम् अयच्छताम्। ताभ्यां देवी-अहिल्यायाः नगरी इन्दौरस्य इतिहासः अपि परिचितीकृतः तथा इन्दौरं देशस्य स्वच्छतमं नगरम् इति कथितम्।

‘५६-दुकान’-सङ्घस्य पदाधिकारिणः आतिथ्य-परम्पराम् अनुसृत्य सर्वेषाम् अतिथीनाम् आत्मीयतया स्वागतं कृत्वा मालवीय-व्यञ्जनानि परोक्षितवन्तः। अतिथीनां स्वागतार्थं ‘५६-दुकान’-परिसरः विशेषरूपेण अलङ्कृतः आसीत्। विदेशी-अतिथयः मालवीय-व्यञ्जनानाम् आस्वादेन सह ‘५६-दुकान’-स्थलस्य इतिहासस्य विषये अपि जानकारीं प्राप्तवन्तः। भाषायाः सुगमतार्थं प्रशासनद्वारा बहुभाषी-अनुवादकानाम् अपि व्यवस्था कृता। अस्मिन्नवसरे नगर-निगम-आयुक्तः क्षितिज-सिंघल-महोदयः, स्मार्ट-सिटी-परियोजनायाः मुख्य-कार्यकारी-अधिकारी अर्थ-जैन-महोदयः तथा अन्ये बहवः अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan