मध्यप्रदेशः इंटरपोलस्य परिक्रमण स्वयं सूचनादातॄणां त्रयाणाम् अंताराष्ट्रिय वन्यजीववंचकानां कृते घोषितः द्विलक्षरुप्यकाणां पुरस्कारः
भोपाल, 08 जून (हि.स.)।मध्यप्रदेशस्य वन्यजीवमुख्यालयेन वनवन्यजीवसंरक्षणार्थं सञ्चाल्यमानानां सघनाभियानानां अन्तर्गतं इण्टरपोल संस्थया रेड नोटिस प्राप्तानां त्रयाणां फरारानाम् अन्ताराष्ट्रियवन्यजीववंचकानां ग्रहणार्थं तथा तेषां विषये सूचना प्रदातृभ्यः
वन्यजीव मुख्यालय (भवन की तस्वीर)


भोपाल, 08 जून (हि.स.)।मध्यप्रदेशस्य वन्यजीवमुख्यालयेन वनवन्यजीवसंरक्षणार्थं सञ्चाल्यमानानां सघनाभियानानां अन्तर्गतं इण्टरपोल संस्थया रेड नोटिस प्राप्तानां त्रयाणां फरारानाम् अन्ताराष्ट्रियवन्यजीववंचकानां ग्रहणार्थं तथा तेषां विषये सूचना प्रदातृभ्यःआहत्य द्विलक्षरूप्यकाणां पारितोषिकराशिः घोषितोऽस्ति।

जनसम्पर्काधिकारी के के जोशी सोमवासरे अवदत् यत् स्टेट टाइगर स्ट्राइक फोर्स इत्यस्य भोपालैककेन वर्षे २०१५ तमे अभिलेखिते प्रकरणे व्याघ्रस्य अवैधवधस्य तथा तस्य अङ्गानाम् अन्तर्राज्यीयान्ताराष्ट्रियवंचना

यासम्बद्धे प्रकरणे मुख्यारोपितौ जे ई तमाङ्ग दिल्ली निवासी तथा ढरके लामा काठमाण्डू नेपाल निवासी इति उभौ प्रायः दशवर्षेभ्यः फरारौ स्तः।

तथैव एस टी एस एफ इत्यस्य शिवपुरीैककेन अभिलेखितेषु कच्छपानां मकराणां च अन्ताराष्ट्रियवंचनासम्बद्धेषु प्रकरणेषु आरोपितः अल हज मोहम्मद शफीकुल इस्लाम उर्फ रहमान तालुकदार ढाका बाङ्ग्लादेश निवासी इत्यस्य अपि अद्यावधि ग्रहणं न जातम्।

सः अवदत् यत् त्रयाणामपि आरोपितानां विरुद्धं सम्बन्धितन्यायालयैः स्थायिग्रहणप्रपत्राणि निर्गतानि सन्ति। अपराधानां गम्भीरतां तथा आरोपितानां सम्भावितान्ताराष्ट्रियक्रियाकलापान् दृष्ट्वा इण्टरपोल संस्थया तेषां त्रयाणामपि विरुद्धं रेड नोटिस निर्गताः सन्ति। तेषां विषये सूचना प्रदातृभ्यः अथवा ग्रहणे साहाय्यं कुर्वद्भ्यः वन्यजीवमुख्यालयेन जे ई तमाङ्ग इत्यस्य विषये एकलक्षरूप्यकाणां तथा ढरके लामा रहमान तालुकदार इत्येतयोः विषये पञ्चाशत्सहस्र पञ्चाशत्सहस्र रूप्यकाणां पारितोषिकं घोषितम् अस्ति।

वन्यजीवमुख्यालयेन सामान्यजनानां प्रति अपीलं कृतम् यत् वाञ्छितारोपितानां विषये काचिदपि सूचना चलदूरवाणीसंख्यासु ९४२४७९२११५, ९४२४७९७०५९ तथा ९४२४७९७०३१ इत्यासु दातुं शक्यते। सूचना प्रदातुः व्यक्तेः परिचयः पूर्णतया गोपनीयः रक्षिष्यते।

---------------