मध्यप्रदेशात् कांग्रेसदलस्य मीनाक्षी नटराजन अपूरयत् नामांकनं, तृतीये राज्यसभासने युद्धम्
भाजपादलस्य तृतीयप्रत्याशिना वर्धितं राजनैतिकं कंपनं, विधायकानाम् एकतायां कांग्रेसदलस्य बलम् भोपालम्, 08 जूनमासः (हि.स.)। मध्यप्रदेशस्य तृतीयराज्यसभासनस्य कृते कांग्रेसदलस्य अभ्यर्थिनी मीनाक्षीनटराजन महोदया सोमवासरे विधानसभास्थिते प्रत्यावर्तना
मीनाक्षी नटराजन ने भरा नामांकन


मीनाक्षी नटराजन ने भरा नामांकन


भाजपादलस्य तृतीयप्रत्याशिना वर्धितं राजनैतिकं कंपनं, विधायकानाम् एकतायां कांग्रेसदलस्य बलम्

भोपालम्, 08 जूनमासः (हि.स.)।

मध्यप्रदेशस्य तृतीयराज्यसभासनस्य कृते कांग्रेसदलस्य अभ्यर्थिनी मीनाक्षीनटराजन महोदया सोमवासरे विधानसभास्थिते प्रत्यावर्तनाधिकरणस्य कार्यालये स्वनामनिर्देशनपत्रं समर्पितवती। नामनिर्देशनसमये कांग्रेसदलेन शक्तिप्रदर्शनं कृत्वा स्वस्य वरिष्ठनेतृणां अधिकांशविधायकानां च उपस्थितिः प्रदर्शिता।

नामनिर्देशनप्रक्रियायां कांग्रेसप्रदेशप्रभारी हरीशचौधरी, प्रदेशाध्यक्षः जीतूपटवारी, प्रतिपक्षनेता उमङ्गसिंघार, पूर्वमुख्यमन्त्री दिग्विजयसिंहः इत्यादयः अनेकाः वरिष्ठनेतारः विधायकाश्च उपस्थिताः आसन्। विधानसभापरिसरे गान्धिप्रतिमायै श्रद्धाञ्जलिं समर्प्य मीनाक्षीनटराजन महोदया स्वनामनिर्देशनपत्रं प्रस्तुतवती। अस्मिन् अवसरे जीतूपटवारी स्वयं विधायकान् प्रत्यावर्तनाधिकरणस्य कक्षपर्यन्तं नीतवान्।

नामनिर्देशनानन्तरं माध्यमप्रतिनिधिभिः सह संवादं कुर्वती मीनाक्षीनटराजन उक्तवती यत् एतत् केवलं निर्वाचनं नास्ति, अपितु विचारधाराणां सङ्घर्षः अस्ति। सा उक्तवती, “कांग्रेसदलम् कृषकाणां श्रमिकाणाम् आदिवासिनां सामान्यजनानां च अधिकारार्थं निरन्तरं सङ्घर्षं कृतवत् अस्ति। वयं सर्वे एकत्रिताः भूत्वा एतन्निर्वाचनं योधिष्यामहे विजयं च प्राप्स्यामः।” नटराजन महोदया भारतीयजनतापक्षं लक्ष्यीकृत्य उक्तवती यत् स्वयम् “पार्टी विद डिफरेंस” इति कथयतः भारतीयजनतापक्षस्य राजनैतिकशुचिता नैतिकता च अस्मिन् निर्वाचने स्पष्टतया दृश्यते।

भारतीयजनतापक्षस्य तृतीयाभ्यर्थिना वर्धिता राजनैतिकचञ्चलता

भारतीयजनतापक्षेण महेशकेवट महोदयस्य सोमवासरे तृतीयाभ्यर्थिरूपेण प्रस्तुतीकरणस्य घोषणानन्तरं कांग्रेसदलेन अपि स्वराजनैतिकरणनीतिः तीव्रा कृता। दलस्रोतसां अनुसारं विधायकैः सह निरन्तरः सम्पर्कः धार्यते तथा च तेषां भोपालनगरे एव स्थितुं निर्देशः दत्तः अस्ति। आवश्यकता जायमाना चेत् विधायकान् अन्यस्मिन् राज्ये स्थानान्तरयितुं सम्भावनानाम् अपि विषये विचारः क्रियते। एतस्मिन्नन्तरे कांग्रेसविधायकः आरिफमसूदः राष्ट्रियसचिवेन कुणालचौधरी सह दिल्लीनगरं प्रति प्रस्थितः अस्ति। राजनैतिकवृत्तेषु एतत् राज्यसभानिर्वाचनसम्बद्धाभिः रणनीतिकतैयारीभिः सम्बद्धं मन्यते, यद्यपि मसूदमहाशयेन एषः निजीप्रवासः इति कथितम्।

कांग्रेसदलेन क्रीतिविक्रयस्य आरोपः कृतः

आदिवासिकांग्रेसस्य राष्ट्रियाध्यक्षः विधायकः च डाक्टरविक्रान्तभूरिया भारतीयजनतापक्षं प्रति कांग्रेसविधायकान् प्रलोभयितुं प्रयत्नस्य आरोपं कृतवान्। भूरियामहाशयः उक्तवान् यत् कांग्रेसदलम् सम्पूर्णस्थितौ सतर्कदृष्टिं धारयति तथा च स्वविधायकानां एकतां सुनिश्चितां कर्तुं सर्वाणि आवश्यकपदानि स्वीकरिष्यति। प्रतिपक्षनेता उमङ्गसिंघार उक्तवान् यत् भारतीयजनतापक्षस्य अभ्यर्थी केवलं डमी अभ्यर्थी अस्ति। कांग्रेसविधायकानां स्थानान्तरणविषये सिंघारमहाशयः उक्तवान् यत् वयं सर्वे परस्परं चर्चां करिष्यामः। ततः निर्णेष्यामः यत् बहिः गन्तव्यं वा न वा।

दिग्विजयस्य भारतीयजनतापक्षाय प्रत्युत्तरम्

कांग्रेसदलस्य वरिष्ठनेता पूर्वमुख्यमन्त्री च दिग्विजयसिंहः भारतीयजनतापक्षस्य प्रतिपाद्यान् निराकृत्य उक्तवान् यत् कांग्रेसदलस्य सर्वे विधायकाः पूर्णतया एकीकृताः सन्ति। सः उक्तवान् यत् भारतीयजनतापक्षः भ्रान्तौ वर्तते तथा च दलस्य सर्वे विधायकाः दृढतया कांग्रेसाभ्यर्थिन्याः समर्थनार्थं स्थिताः सन्ति। अपरं कांग्रेसविधायकौ हेमन्तकटारे सुनीलउईके च अपि प्रतिपादनं कृतवन्तौ यत् मीनाक्षीनटराजन महोदयायै अपेक्षातः अधिकं समर्थनं प्राप्स्यते तथा च निर्वाचनपरिणामः कांग्रेसदलस्य पक्षे भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani