मध्यप्रदेशतः राज्यसभायाः तृतीय-स्थानार्थं भाजपा-पक्षेण अभ्यर्थी घोषितः, महेश-केवट-महोदयः अद्य नामाङ्कन-पत्रं समर्पयिष्यति
भोपालनगरम्, ०८ जूनमासः (हि.स.)। मध्यप्रदेशतः राज्यसभायाः तृतीय-स्थानार्थं भारतीयजनतापक्षेन मत्स्यजीवी-कल्याण-मण्डलस्य अध्यक्षः महेश-केवट-महोदयः अभ्यर्थिरूपेण घोषितः। अस्य स्थानस्य कृते तस्य प्रतिस्पर्धा कांग्रेस-पक्षस्य अभ्यर्थिन्या मीनाक्षी-नटराजन
मुख्यमंत्री के साथ महेश केवट (फाइल फोटो)


भोपालनगरम्, ०८ जूनमासः (हि.स.)। मध्यप्रदेशतः राज्यसभायाः तृतीय-स्थानार्थं भारतीयजनतापक्षेन मत्स्यजीवी-कल्याण-मण्डलस्य अध्यक्षः महेश-केवट-महोदयः अभ्यर्थिरूपेण घोषितः। अस्य स्थानस्य कृते तस्य प्रतिस्पर्धा कांग्रेस-पक्षस्य अभ्यर्थिन्या मीनाक्षी-नटराजन-महोदयया सह भविष्यति। उभावपि नेतारौ अद्य सोमवासरे स्व-नामाङ्कन-पत्रं समर्पयिष्यतः।

मध्यप्रदेशतः राज्यसभायाः त्रीणि स्थानानि रिक्तानि भवितुम् अर्हन्ति। एतेषां स्थानानां पूर्त्यर्थं द्विवार्षिक-निर्वाचन-प्रक्रियायाः अन्तर्गतं अद्य नामाङ्कन-प्रक्रियायाः अन्तिमः दिवसः अस्ति। मध्यप्रदेश-विधानसभायां विधायकानां सङ्ख्यानुसारं राज्यसभायाः द्वयोः स्थानयोः भाजपा-पक्षस्य तथा एकस्मिन् स्थाने कांग्रेस-पक्षस्य विजयः सुनिश्चितः मन्यते।

भाजपा-पक्षेन पूर्वमेव द्वयोः स्थानयोः अभ्यर्थिनौ घोषितौ स्तः। तयोः अभ्यर्थिनोः तरुण-चुघ-महोदयः रजनीश-अग्रवाल-महोदयश्च स्व-नामाङ्कन-पत्रं समर्पितवन्तौ, यदा तु एकस्य स्थानस्य कृते कांग्रेस-पक्षेन मीनाक्षी-नटराजन-महोदया अभ्यर्थिनीरूपेण घोषितास्ति। सा अद्य नामाङ्कन-पत्रं समर्पयिष्यति। एतस्मिन्नन्तरे भाजपा-पक्षेन तृतीय-स्थानार्थम् अपि अभ्यर्थी घोषितः।

भाजपा-पक्षस्य तृतीय-अभ्यर्थिनः विषये देहलीतः अनुमोदनं प्राप्ते सति रविवासरस्य रात्रौ मुख्यमन्त्री-निवासे भाजपा-विधायक-दलस्य सभा अभवत्। प्रायः एक-होरापर्यन्तं प्रवृत्तायां अस्यां सभायां वरिष्ठ-नेतृभिः निर्वाचन-रणनीतेः तथा नामाङ्कन-प्रक्रियायाः विषये चर्चा कृता। ततः परं महेश-केवट-महोदयस्य नाम्नः अन्तिमा स्वीकृतिः प्रदत्ता।

मध्यप्रदेश-विधानसभायां सम्प्रति २२८ सदस्याः मतदानार्थं पात्राणि सन्ति। राज्यसभायाः एकस्य स्थानस्य विजयं प्राप्तुं ५८ मतानां आवश्यकता वर्तते। भाजपा-पक्षस्य समीपे १६४ विधायकाः सन्ति, यदा तु कांग्रेस-पक्षस्य समीपे ६३ विधायकाः सन्ति। विधानसभायाः सङ्ख्याबलस्य आधारेण द्वे स्थानं भाजपा-पक्षाय प्राप्तुं निश्चिते स्तः, यदा तु एकं स्थानं कांग्रेस-पक्षस्य भागे गच्छति इति दृश्यते।

अद्य अपराह्णे सार्ध-एकवादने प्रदेश-भाजपा-कार्यालये मुख्यमन्त्री डॉ.मोहन-यादव-महोदयः, प्रदेश-प्रभारी डॉ.महेन्द्र-सिंह-महोदयः, क्षेत्रीय-सङ्घटन-मन्त्री अजय-जामवाल-महोदयः, प्रदेशाध्यक्षः हेमन्त-खण्डेलवाल-महोदयः तथा अन्ये मन्त्रिणः, विधायकाः पक्ष-पदाधिकारीणश्च समागमिष्यन्ति। ततः सर्वे शोभायात्रा-रूपेण विधानसभां गमिष्यन्ति, यत्र भाजपा-अभ्यर्थी महेश-केवट-महोदयः नामाङ्कन-पत्रं समर्पयिष्यति। कांग्रेस-अभ्यर्थिनी मीनाक्षी-नटराजन-महोदया अपि स्व-समर्थकैः पक्ष-नेतृभिश्च सह विधानसभां गत्वा नामाङ्कनं समर्पयिष्यति। अस्मिन् अवसरे पूर्व-मुख्यमन्त्री दिग्विजय-सिंह-महोदयः, प्रदेश-कांग्रेस-अध्यक्षः जीतू-पटवारी-महोदयः तथा अन्ये पक्ष-पदाधिकारीणः अपि उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan