नेपाले परीक्षावधौ दूरवाणी अंकीयघटी च नाशिते, विरोधे छात्र संगठनानां प्रदर्शनम्
काठमांडूः, 08 जूनमासः (हि.स.)। नेपालदेशे दशमकक्षायाः तथा द्वादशकक्षायाः परीक्षाणां समये जप्तानां दूरभाषयन्त्राणां तथा स्मार्टवॉचयन्त्राणां जले निमज्ज्य विनाशनस्य घटनायाः विरोधे सिरहाजनपदे संयुक्तछात्रसङ्गठनैः प्रदर्शनं कृतम्। छात्रैः सिरहाजनपदक्य
नेपाल में छात्र संगठनों का प्रदर्शन


काठमांडूः, 08 जूनमासः (हि.स.)।

नेपालदेशे दशमकक्षायाः तथा द्वादशकक्षायाः परीक्षाणां समये जप्तानां दूरभाषयन्त्राणां तथा स्मार्टवॉचयन्त्राणां जले निमज्ज्य विनाशनस्य घटनायाः विरोधे सिरहाजनपदे संयुक्तछात्रसङ्गठनैः प्रदर्शनं कृतम्। छात्रैः सिरहाजनपदक्याम्पसस्य पुरतः आरभ्य जिलाप्रशासनकार्यालयपर्यन्तं रैली आयोज्य विरोधः प्रकटितः। प्रदर्शनकारिभिः विनष्टानां दूरभाषयन्त्राणां समुचितक्षतिपूर्तेः प्रदानम्, प्रभावितछात्रेभ्यः न्यायप्रदानम् तथा निजीसम्पत्तेः प्रति दमनात्मककार्यवाहीनां निरोधनम् इति मागणाः कृताः।

एतेन सह छात्रसङ्गठनैः प्रमुखजिलाधिकारीमाध्यमेन जिलाप्रशासनकार्यालयाय सिरहाय ज्ञापनपत्रं समर्प्य घटनायाः निष्पक्षानुसन्धानम्, पीडितेभ्यः क्षतिपूर्तिः तथा उत्तरदायिपक्षेषु विधिसम्मतकार्यवाही इति मागणाः कृताः। ज्ञापनपत्रे उक्तं यत् संविधानदत्तस्य सम्पत्त्यधिकारस्य उल्लङ्घनं कृत्वा विधिसम्मतप्रक्रियायाः परिपूर्तिं विना दूरभाषयन्त्राणि तथा अन्योपकरणानि विनाशितानि, यत् अत्यन्तमापत्तिजनकम् अस्ति।

छात्रसङ्गठनानां कथनम् अस्ति यत् परीक्षासु नकलकार्ये अथवा अनियमिततासु संलग्नेषु जनिषु विधानानुसारं कार्यवाही कर्तुं शक्यते, किन्तु कस्यापि निजीसम्पत्तेः विनाशनस्य अधिकारः कस्यापि नास्ति। तैः स्पष्टतया उक्तं यत् ते परीक्षासु नकलकार्यस्य अथवा अनियमिततायाः पक्षधराः न सन्ति, अपितु विधेः, न्यायस्य तथा उत्तरदायित्वस्य पक्षधराः सन्ति। ज्ञापनपत्रे दोषिषु कार्यवाही तथा पीडितेभ्यः समुचितक्षतिपूर्तेः प्रदानस्य मागणी कृता अस्ति।

जिलाप्रशासनकार्यालयेन सिरहाय गतमार्चमासे आयोजितासु दशमकक्षायाः तथा द्वादशकक्षायाः परीक्षासु परीक्षार्थिभ्यः जप्तानि प्रायः पञ्चशतानि दूरभाषयन्त्राणि तथा स्मार्टवॉचयन्त्राणि जले निमज्ज्य विनाशितानि आसन्। प्रशासनस्य अनुसारं सप्त एप्पलआइफोनयन्त्राणि, विविधकम्पनीनां चतुरशीत्यधिकचतुःशतानि एण्ड्रॉयडदूरभाषयन्त्राणि तथा पञ्च स्मार्टवॉचयन्त्राणि प्राप्तानि आसन्। एतेषामुपकरणानां अनुमानितं विपणिमूल्यं एककोटिनॆपालीरूप्यकाधिकम् आसीत् इति उक्तम्।

समित्या दावा कृतः यत् जिलाप्रहरीकार्यालयस्य परिसरे दूरभाषयन्त्राणि तथा अन्योपकरणानि चतुर्विंशतिघण्टापर्यन्तं जले निमज्जितानि स्थापितानि, येन तानि पुनः उपयोगयोग्यानि न भवेयुः, ततः परं तानि विनाशितानि। प्रशासनस्य कथनम् अस्ति यत् परीक्षायाः मर्यादारक्षणार्थं तथा भविष्ये एतादृशोपकरणानां दुरुपयोगनिवारणार्थं एषः उपायः स्वीकृतः। अभिभावकैः, विधिविशेषज्ञैः तथा छात्रसङ्गठनैः अस्मिन् निर्णय विषये गम्भीरमसन्तोषं प्रकट्य निष्पक्षानुसन्धानम्, क्षतिपूर्तिः तथा न्यायः इति याचना कृताः।

---------------

Hindusthan Samachar / Dheeraj Maithani