Enter your Email Address to subscribe to our newsletters


चंडीगढ़म्, 08 जूनमासः (हि.स.)।
लोकसभाध्यक्षः ओम् बिरला उक्तवान् यत् “विकसितभारत” इति संकल्पः एकः राष्ट्रियसंकल्पः अस्ति, यस्मिन् देशस्य प्रत्येकनागरिकेण प्रत्येकसंस्थया च सहयोगः करणीयः। एतद् लोकसभाध्यक्षेन ओम् बिरलेन सोमवासरे चण्डीगढस्थिते हरियाणाविधानसभायाः सभाकक्षे आयोजितस्य कॉमनवेल्थ पार्लियामेण्ट्री एसोसिएशन इण्डिया रीजन जोन द्वितीय उत्तरक्षेत्र सम्मेलनस्य उद्घाटनसत्रे उक्तम्।
सः उक्तवान् यत् अस्य संकल्पस्य साकारणार्थम् एतद् अत्यन्तम् आवश्यकं यत् अस्माकं नीतयः, योजनाः, कार्यक्रमाः तथा राजस्वप्रावधानानि समाजस्य अन्तिमव्यक्तेः जीवने सकारात्मकपरिवर्तनं जनयितुं समर्थानि भवेयुः।
अस्मिन् अवसरे राज्यसभायाः उपसभापतिः हरिवंशः, हरियाणाराज्यस्य मुख्यमन्त्री नायब सिंहः, हरियाणाविधानसभाध्यक्षः हरविन्द्र कल्याणः, हरियाणासरकारस्य संसदीयकार्यमन्त्री महिपाल ढाण्डा इत्यादयः राज्यसरकारस्य अन्ये मन्त्रिणः तथा विधानसभासदस्याः च उपस्थिताः आसन्।
द्विदिवसीये सीपीए इण्डिया रीजन जोन द्वितीय उत्तरक्षेत्र सम्मेलनस्य उद्घाटनसत्रे देशस्य द्वादशराज्यानां विधायिकानां पीठासीनाधिकारिणः सहभागितां कृतवन्तः। अस्मिन् हरियाणा, पञ्जाब, हिमाचलप्रदेश, जम्मूकश्मीर तथा दिल्ली इत्येतासां विधायिकानां पीठासीनाधिकारिणां अतिरिक्तम् अन्येषां राज्याणां यथा मध्यप्रदेश, महाराष्ट्र, गोवा, उत्तरप्रदेश, सिक्किम तथा पश्चिमबङ्ग इत्येतासां विधायिकानां पीठासीनाधिकारिणः अपि सहभागीभूताः।
बिरला उक्तवान् यत् विश्वस्य विकसितदेशेषु भवन्तीनां परिवर्तनानां सूक्ष्मतया अध्ययनं कुर्वन् भारतः स्वकीयसामाजिकआर्थिकपरिस्थितीनाम् अनुरूपं समये समये आवश्यकान् व्यावहारिकान् च परिवर्तनान् कृतवान् अस्ति।
लोकसभाध्यक्षः आह्वानं कृतवान् यत् देशे तादृशं जनान्दोलनम् उद्भवेत् येन प्रत्येकनागरिकः एतत् अनुभवेयात् यत् विकसितभारतनिर्माणे तस्यापि अमूल्यं योगदानम् अस्ति।
लोकसभाध्यक्षेन एतदपि सूचितं यत् अस्माकं विधानमण्डलेषु निर्मीयमाणाः नीतयः तथा विधयः नवीनपीढ्याः आकाङ्क्षाणां आवश्यकतानां च अनुरूपाः भवेयुः।
संसदीयलोकतन्त्रे जनसहभागितायाः महत्त्वं प्रकाशयन् बिरला उक्तवान् यत् ग्रामपञ्चायत् भवेत्, पञ्चायत्समितिः भवेत्, जिलापरिषद् भवेत्, नगरपालिका भवेत्, विधानसभा भवेत् अथवा लोकसभा भवेत्, लोकतान्त्रिकप्रक्रियासु जनसहभागितायाः वर्धनेन नूतनविचाराः, विविधदृष्टिकोणाः तथा रचनात्मकसुझावाः समक्षम् आगच्छन्ति, येन विकासस्य गतिः नूतनां ऊर्जां प्राप्नोति।
सम्मेलनस्य उद्घाटनात् पूर्वं लोकसभाध्यक्षः ओम् बिरला हरियाणाविधानसभाभवने नवस्थापितस्य “पार्लियामेण्ट्री रिसर्च एण्ड इन्फॉर्मेशन सेन्टर” इत्यस्य अपि उद्घाटनं कृतवान्, यत् विधायिकार्याणां गुणवत्तावर्धने सहायकं भविष्यति।
अस्मिन् सम्मेलने सर्वेषां प्रतिनिधीनाम् आवागमनव्यवस्था ई बसयानानां माध्यमेन कृता अस्ति। लोकसभाध्यक्षः ओम् बिरला उद्घाटनसत्रस्य समापनानन्तरं प्रतिनिधिभिः सह ई बसयानेन प्रस्थितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani