Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 08 जूनमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः २३ जूने राष्ट्रपतिभवने आयोजिते द्वितीये नागरिकालंकरणसमारोहे अस्मिन् वर्षे पञ्चषष्टि प्रतिष्ठितजनान् पद्मपुरस्कारैः सम्मानयिष्यति।
राष्ट्रपतिः अस्मात् पूर्वं २५ मे तिथौ प्रथमे नागरिकालंकरणसमारोहे षट्षष्टि प्रतिष्ठितजनान् पद्मपुरस्कारैः सम्मानितवती आसीत्। एतेषु द्वौ पद्मविभूषणपुरस्कारौ, षट् पद्मभूषणपुरस्काराः तथा अष्टपञ्चाशत् पद्मश्रीपुरस्काराः अन्तर्भूताः आसन्।
अस्मिन् वर्षे राष्ट्रपतिना पञ्च पद्मविभूषणपुरस्काराः, त्रयोदश पद्मभूषणपुरस्काराः, त्रयोदशाधिकशतम् पद्मश्रीपुरस्काराः च सहिताः एकत्रिंशदधिकशतं पद्मपुरस्काराः अनुमोदिताः आसन्। एते पुरस्काराः प्रतिवर्षं गणतन्त्रदिवसस्य अवसरे घोषिताः भवन्ति।
एते प्रतिष्ठिताः नागरिकसम्मानाः कला, सामाजिककार्य, सार्वजनिकविषयाः, विज्ञानम्, अभियान्त्रिकी, वाणिज्यम्, उद्योगः, चिकित्साविज्ञानम्, साहित्यं, शिक्षा, क्रीडा तथा नागरिकसेवा इत्यादिषु विविधेषु क्षेत्रेषु प्रदीयन्ते।
उल्लेखनीयम् अस्ति यत् पद्मविभूषणपुरस्कारः असाधारणविशिष्टसेवायै, पद्मभूषणपुरस्कारः उच्चकोटिविशिष्टसेवायै, पद्मश्रीपुरस्कारः च कस्मिन्नपि क्षेत्रे विशिष्टसेवायै प्रदीयते।
राष्ट्रपतिभवने आयोज्यमानः अयं समारोहः देशस्य विविधेषु क्षेत्रेषु उल्लेखनीयं योगदानं दत्तवतां व्यक्तीनां सम्माननस्य महत्त्वपूर्णः अवसरः भविष्यति।
-----------
Hindusthan Samachar / Dheeraj Maithani