द्वादश-वर्षेषु परिवर्तितं भारतम्, केन्द्रबिन्दौ स्थितौ दरिद्र-वञ्चित-वर्गौ : प्रधानमन्त्री नरेन्द्रमोदी
नवदेहली, ०८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः भारतीय-जनता-पक्षस्य नेतृत्वयुक्तस्य राष्ट्रिय-जनतान्त्रिक-गठबन्धन-सर्वकारस्य गत-द्वादश-वर्षेषु सम्पन्नानां विकास-कार्याणां उल्लेखं कुर्वन् उक्तवान् यत् एतेषु द्वादश-वर्षेषु भारतेन बहूनि
पंतप्रधान नरेंद्र मोदी


नवदेहली, ०८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः भारतीय-जनता-पक्षस्य नेतृत्वयुक्तस्य राष्ट्रिय-जनतान्त्रिक-गठबन्धन-सर्वकारस्य गत-द्वादश-वर्षेषु सम्पन्नानां विकास-कार्याणां उल्लेखं कुर्वन् उक्तवान् यत् एतेषु द्वादश-वर्षेषु भारतेन बहूनि परिवर्तनानि दृष्टानि, तथा च एतेषां परिवर्तनानां केन्द्रबिन्दुः दरिद्राणां, वञ्चितानां तथा समाजस्य अन्तिम-पङ्क्तौ स्थितानां जनानां कल्याणमेव आसीत्। अन्त्योदयस्य भावनया प्रेरितः सर्वकारः विकासस्य लाभः तेषां जनानां समीपमपि प्राप्नुयात् इति सुनिश्चितुं प्रयत्नशीलः अभवत्, ये दशकान् यावत् तस्मात् वञ्चिताः आसन्।

प्रधानमन्त्री सोमवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र क्रमिक-लेखमालायां लिखितवान् यत् जनधन-लेखाः, प्रत्यक्ष-लाभ-अन्तरण-योजना, स्वच्छ-भारत-अभियानम्, प्रधानमन्त्री-आवास-योजना, जल-जीवन-अभियानम् तथा आयुष्मान्-भारत-योजना इत्यादीनां योजनानां उद्देश्यं जनेभ्यः सम्मानजनकं जीवनं तथा उत्तमान् अवसरान् प्रदातुम् आसीत्।

तेन उक्तं यत् दरिद्र-कल्याणस्य दिशि प्रौद्योगिक्या महत्त्वपूर्णा भूमिका निर्वुढा। डीबीटी-व्यवस्थया तथा डिजिटल-मञ्चानां माध्यमेन शासकीय-साहाय्यं प्रत्यक्षतया पारदर्शक-रीत्या च लाभार्थिभ्यः प्राप्यते। अनेन धन-अपव्यये न्यूनता जाता, कार्यकुशलता वर्धिता तथा शासन-व्यवस्थायां जनानां विश्वासः सुदृढीकृतः।

प्रधानमन्त्री उक्तवान् यत् दरिद्र-कल्याणस्य एषा यात्रा अधुना मानव-सशक्तीकरणस्य व्यापक-अभियाने परिणता अस्ति, या विकसित-भारतस्य सङ्कल्पं साकारयितुं अग्रे गच्छति। सर्वकारस्य निरन्तरः प्रयासः एषः एव अभवत् यत् विकासस्य मुख्यधारातः दीर्घकालं यावत् दूरस्थेषु जनेषु अपि समानाः अवसराः सुविधाश्च उपलभ्येरन्।

प्रधानमन्त्री मोदी-महोदयः उक्तवान् यत् गत-द्वादश-वर्षेषु प्रवर्तिताभिः विविधाभिः जनकल्याणकारी-योजनाभिः कोटिशः जनानां जीवनेषु सकारात्मक-परिवर्तनानि समानीतानि, एते एव प्रयासाः विकसित-भारत-निर्माणस्य सुदृढां आधारशिलां निर्मान्ति।

Hindusthan Samachar / Divya Ranjan