प्रकृत्या सह सन्तुलनं समस्त-जीव-कल्याणं च भारतीय-संस्कृतेः मूलभावना, सतत-विकासस्य सन्देशं दत्तवान् प्रधानमन्त्री नरेन्द्रमोदी
नवदेहली, ०८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः प्रकृत्या सह सन्तुलनं, पर्यावरण-संरक्षणं तथा समस्त-जीवानां कल्याणं भारतीय-संस्कृतेः मूलभावना इति उक्तवान्। तेन उक्तं यत् एतया व्यापक-दृष्ट्या सह भारतम् अद्य प्रगतेः समृद्धेश्च मार्गे नि
प्रधानमंत्री नरेन्द्र मोदी


नवदेहली, ०८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः प्रकृत्या सह सन्तुलनं, पर्यावरण-संरक्षणं तथा समस्त-जीवानां कल्याणं भारतीय-संस्कृतेः मूलभावना इति उक्तवान्। तेन उक्तं यत् एतया व्यापक-दृष्ट्या सह भारतम् अद्य प्रगतेः समृद्धेश्च मार्गे निरन्तरम् अग्रे गच्छति।

प्रधानमन्त्री सोमवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र लिखितवान् यत् प्रकृत्या सह सन्तुलनस्य स्थापना तथा सर्वेषां जीवानां कल्याणस्य सुनिश्चितीकरणं अस्माकं संस्कृतेः मूलाधारः अस्ति। एतस्य विचारस्य प्रतिपादनार्थं तेन एकं संस्कृत-सुभाषितमपि लिखितम्।

यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते।तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्॥

अस्य सुभाषितस्य भावार्थः अस्ति यत् चतुर्षु दिक्षु व्याप्तिवत् विस्तृता, दृष्टिवत् सजगा दूरदर्शिनी च समृद्धिः शक्तिश्च मनुष्ये भवेत्। अस्य सन्देशः अस्ति यत् मानवः प्रकृत्या सह पूर्ण-सामञ्जस्यं स्थापयन् अग्रे गच्छेत्, पर्यावरणस्य रक्षणं कुर्यात् तथा सर्वेषां प्राणिनां कल्याणं सुनिश्चितं कुर्यात्।

प्रधानमन्त्री उक्तवान् यत् भारतस्य प्रगतिः केवलम् आर्थिक-विकासपर्यन्ता सीमिता नास्ति, अपितु पर्यावरण-संरक्षणेन तथा समस्त-प्राणिनां सतत-कल्याण-भावनया सह सम्बद्धा अस्ति।

Hindusthan Samachar / Divya Ranjan