Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, ०८ जूनमास: (हि.स.)।शिमलानगरस्य वादिषु अद्यतः पुनः उत्सवस्य रंगः आरोहति। राजधानीस्य ऐतिहासिकः रिज-प्रांगणं पञ्चदिनानि यावत् गीत-संगीतैः, लोक-संस्कृत्या, क्रीडा-प्रतियोगिताभिः च विविधैः रंगारंग-कार्यक्रमैः समृद्धः भविष्यति। ०८ तः १२ जूनपर्यन्तं आयोजितस्य अन्ताराष्ट्रिय-शिमला समर फेस्टिवल-२०२६ इत्यस्य उद्घाटनम् अद्य सायं राज्यपालः कविन्द्रगुप्ता करिष्यति, महोत्सवस्य समापनं च १२ जूनमासे मुख्यमन्त्री सुखविन्दरसिंह: सुक्खू-इत्यस्य अध्यक्षतायां भविष्यति।
प्रत्येकवर्षवत् अस्मिन् वर्षे अपि समर-फेस्टिवल-विषये स्थानीयजनानां पर्यटकानां च मध्ये विशेषः उत्साहः दृश्यते। जनपद-प्रशासनस्य अनुसारम् अस्य आयोजनं सांस्कृतिक-विविधता, लोक-कला च मनोरञ्जनस्य महत् संगमः भविष्यति। हिमाचलप्रदेशस्य प्रायः द्विशत-कलाकाराः पञ्चदिनानि यावत् स्वप्रस्तुतिभिः प्रदेशस्य समृद्धां लोक-संस्कृतिं जनानां समक्षं प्रदर्शयिष्यन्ति। सहैव देशस्य विविध-राज्येभ्यः आगतानि सांस्कृतिक-दलानि अपि स्वकला-प्रदर्शनं करिष्यन्ति।
महोत्सवस्य प्रथम-दिने प्रातःकालात् एव विविध-गतिविधयः आरभ्यन्ते। गेयटी-थिएटर इत्यत्र हिन्दी-कवि-सम्मेलनस्य द्वे सत्रे भविष्यतः, संजौली-नगरनिगम-प्रांगणे च ‘एंटी-चिट्टा’ अण्डर-२१ जनपद-स्तरीया वॉलीबॉल-प्रतियोगिता आरभ्यते। सायंकाले जुम्बा-नृत्यं, छम्म-नृत्यं, तथा रंगमञ्च-उत्सवे ‘जेहर’ इति नाटकस्य मंचनं अपि भविष्यति। फन-अट्रैक्शन, फ्लावर-शो, स्टैच्यू-मैन इत्यादयः अपि दर्शकानां प्रमुख-आकर्षणं भविष्यन्ति।
समर-फेस्टिवल-इत्यस्य प्रमुख-आकर्षणं तस्य सांस्कृतिक-संध्याः भवन्ति। प्रथम-सांस्कृतिक-संध्यायां बॉलीवुड-गायकः शबाब साबरी स्वप्रस्तुतिं करिष्यति। द्वितीय-संध्यायां गायिका ज्योतिकाटांगरी दर्शकानां मनोरञ्जनं करिष्यति। तृतीय-संध्यायां हिमाचलस्य लोक-गायकः ‘नाटी-किंग’ कुलदीप: शर्मा भविष्यति। चतुर्थ-संध्यायां पंजाबी-गायकः गुरनामभुल्लर: मंचं धारयिष्यति, अन्तिम-संध्यायां च जस्सीगिल: तथा बब्बलराय: स्वप्रस्तुतिभिः महोत्सवस्य समापनं शोभयिष्यतः।
महोत्सवे सांस्कृतिक-कार्यक्रमैः सह अन्यान्यपि आकर्षणानि भविष्यन्ति—तिब्बत-प्रदर्शन-कला-संस्थानस्य, उत्तर-क्षेत्र-सांस्कृतिक-केन्द्रस्य पटियाला-कलाकाराणां प्रस्तुतयः, उत्तराखण्ड-राजस्थान-जम्मू-कश्मीर-हरियाणा-आदीनां लोकनृत्यानि, आर्ट-फेस्टिवल, स्वास्थ्य-शिशु-प्रदर्शनम्, माई-चैम्पियन-डॉग-शो, श्यामला-मन्थनम्, श्यामला-मुशायरा, श्यामला-कवि-गोष्ठी, लाइव-बैंड-शो, महा-नाटी, वॉयस-ऑफ-माउंटेन, फैशन-शो, मलखम्भः, शिमला-स्वाद-महोत्सवः, हॉट-एयर-बैलून-शो, हेलीकॉप्टर-जॉय-राइड, फिल्म-फेस्टिवलः तथा सड़क-सुरक्षा-जागरूकता-अभियानानि च आयोजितानि भविष्यन्ति।
शिमला-स्य उपायुक्तः अनुपमकश्यपः उक्तवान् यत् ०९ जूनमासे शिमला-शहरी-विधायकः हरीशजनारथा, १० जून-दिने शिक्षामन्त्री रोहितठाकुर:, तथा ११ जूनमासे उपमुख्यमन्त्री मुकेश: अग्निहोत्री सांस्कृतिक-संध्यासु मुख्यातिथयः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan