Enter your Email Address to subscribe to our newsletters


नैनीतालनगरम्, ०८ जूनमासः (हि.स.)। भारत-निर्वाचन-आयोगस्य निर्देशानुसारम् उत्तराखण्डे विशेष-गहन-पुनरीक्षण-कार्यक्रम: प्रारब्धः। अस्य अन्तर्गतं सोमवासरात् नैनीताल-जनपदे बीएलओ-कर्मचारिभिः मतदातॄणां गृहं-गृहं गत्वा गणना-प्रपत्र-वितरणस्य कार्यम् आरब्धम्।
अभियानस्य औपचारिक-शुभारम्भः उत्तराखण्ड-लोक-भवने नैनीताले अभवत्, यत्र उत्तराखण्डस्य राज्यपालाय सेवानिवृत्त-लेफ्टिनेण्ट-जनरल-गुरमीत-सिंह-महोदयाय निर्वाचन-पञ्जीकरण-अधिकारिणा गणना-प्रपत्रं प्रदत्तम्।
अधिकारिभिः उक्तं यत् विशेष-गहन-पुनरीक्षण-कार्यक्रमस्य अन्तर्गतं बीएलओ-कर्मचारिणः प्रत्येकस्य मतदातुः गृहं गत्वा गणना-प्रपत्राणि वितरिष्यन्ति तथा निर्धारित-प्रक्रियानुसारं मतदाता-विवरणानां सत्यापनम् अद्यतनीकरणं च करिष्यन्ति। अस्य अभियानस्य उद्देश्यं निर्वाचन-नामावलिं अधिकां शुद्धाम्, अद्यतनीम्, त्रुटिरहितां च कर्तुम् अस्ति, येन पात्र-नागरिकाणां नामानि मतदाता-सूच्यां सुनिश्चितानि भवितुं शक्नुयुः।
अस्मिन्नवसरे कुमाऊँ-आयुक्तः दीपक-रावत-महोदयः, राज्यपालस्य अपर-सचिवा रीना-जोशी-महोदया, अपर-जनपदाधिकारी विवेक-राय-महोदयः तथा उपजनपदाधिकारी नवाजिश-खलीक-महोदयः उपस्थिताः आसन्।
अन्यस्मिन् घटनाक्रमे अद्य नैनीताल-छावनी-परिषदः मुख्य-कार्यकारी-अधिकारिणी तनु-सेठ-महोदया अपि लोक-भवने राज्यपालेन सह शिष्टाचार-साक्षात्कारं कृतवती।
Hindusthan Samachar / Divya Ranjan