बांग्लादेश क्रिकेटपरिषदः अध्यक्षो जातः तमीमइकबालः, पारदर्शितासुधारयोः अनुबंधो विहितः
ढाका, 07 जूनमासः (हि.स.)।बाङ्ग्लादेशस्य क्रिकेटदलस्य पूर्वकप्तानः तमीम इकबाल रविवासरे बाङ्ग्लादेश क्रिकेट परिषदः नूतनः अध्यक्षः निर्वाचितः। निर्विरोधरूपेण निर्वाचितः तमीम परिषदः नेतृत्वं स्वीकृत्य पारदर्शितायाः वर्धनम्, क्रीडकानां सम्मानस्य संरक्षण
बांग्लादेश क्रिकेट बोर्ड के अध्यक्ष बने तमीम इकबाल


ढाका, 07 जूनमासः (हि.स.)।बाङ्ग्लादेशस्य क्रिकेटदलस्य पूर्वकप्तानः तमीम इकबाल रविवासरे बाङ्ग्लादेश क्रिकेट परिषदः नूतनः अध्यक्षः निर्वाचितः। निर्विरोधरूपेण निर्वाचितः तमीम परिषदः नेतृत्वं स्वीकृत्य पारदर्शितायाः वर्धनम्, क्रीडकानां सम्मानस्य संरक्षणम् तथा बाङ्ग्लादेशस्य क्रिकेटस्य प्रतिष्ठायाः पुनः सुदृढीकरणस्य सङ्कल्पं व्यक्तवान्।

षट्त्रिंशद्वर्षीयः तमीम आगामिचतुर्वर्षपर्यन्तं परिषदः नेतृत्वं करिष्यति। निर्वाचनानन्तरं तेन उक्तं यत् एतत् पदं तस्य कृते केवलं सम्मानः न, अपितु महान् उत्तरदायित्वम् अस्ति। तेन उक्तं यत् गतकेषु वर्षेषु क्रिकेटप्रशासनसम्बद्धान् अनेकान् विषयान् सः उत्थापितवान् आसीत्, अधुना च स्वयम् आत्मानं सिद्धयितुं तस्मै अवसरः प्राप्तः अस्ति।

ढाकानगरस्य शेर ए बाङ्ग्ला राष्ट्रियक्रीडाङ्गणे आयोजिते निर्वाचने त्रयोविंशतिः निदेशकाः चयनिताः, यदा शासनद्वारा नामनिर्दिष्टयोः द्वयोः प्रतिनिध्योः समावेशेन परिषदः कुलसदस्यसङ्ख्या पञ्चविंशतिः अभवत्। ततः परं नूतनपरिषदा सर्वसम्मत्या तमीम अध्यक्षपदे निर्वाचितः।

तमीम स्वकार्यकालस्य प्राथमिकतासु आधुनिकस्य उच्चप्रदर्शनकेन्द्रस्य स्थापना सर्वोपरी इति निर्दिष्टवान्। तेन उक्तं यत् एषः तस्य महान् स्वप्नः अस्ति तथा च अस्य कृते शासनस्य सहयोगः अपि आवश्यकः भविष्यति। प्रस्तावितं केन्द्रं ढाकानगरस्य समीपे पूर्वाचलक्षेत्रे विकसितुं योजना अस्ति, यत् वर्तमानप्रशिक्षणसुविधाभ्यः अत्यधिकं उन्नतं भविष्यति।

नूतनाध्यक्षेन बाङ्ग्लादेशक्रिकेटक्रीडायाः नवीनपरिस्थितयोऽपि उल्लिखिताः। तेन उक्तं यत् गतार्धद्विवर्षकाले क्रीडकाः अन्ये हितधारकाः च अपेक्षितं सम्मानं न प्राप्तवन्तः, येन क्रिकेटस्य प्रतिष्ठा प्रभाविताभवत्। तमीम विशेषतया उक्तवान् यत् वर्तमानपूर्वक्रीडकयोः सम्मानः सहभागिता च प्राथमिकतया स्वीकृता भविष्यति।

तेन परिषदः कार्यप्रणाल्यां अधिकउत्तरदायित्वस्य पारदर्शितायाश्च आश्वासनम् अपि दत्तम्। तमीम अवदत् यत् तस्य लक्ष्यं प्रामाणिकतया कार्यं कर्तुम् अस्ति, यदि काचित् त्रुटिः भवति तर्हि तस्याः शीघ्रं परिष्कारः करिष्यते।

बाङ्ग्लादेशस्य श्रेष्ठतमेषु क्रिकेटक्रीडकेषु अन्यतमः तमीम इकबाल स्वस्य अन्ताराष्ट्रियक्रीडाजीवने एकोनचत्वारिंशत् शताधिकत्रिशतानि अर्थात् ३९१ स्पर्धाः अक्रीडत् तथा च त्रिषु प्रारूपेषु पञ्चदशसहस्राधिकान् धावनाङ्कान् अर्जितवान्। कप्तानरूपेण तेन बाङ्ग्लादेशदलाय एकविंशतिः विजयाः प्राप्ताः, येषु २०२२ वर्षे दक्षिण आफ्रिकादेशस्य विरुद्धं ऐतिहासिकी एकदिवसीयश्रृङ्खलाविजयः अपि अन्तर्भवति।

अन्ताराष्ट्रियक्रीकेटक्रीडातः २०२५ वर्षस्य प्रारम्भे निवृत्तिं स्वीकृत्य अपि तमीम घरेलू क्रिकेटस्पर्धासु अक्रीडत्, किन्तु ढाका प्रीमियर लीगस्य एकस्मिन् स्पर्धायां हृदयाघातस्य अनन्तरं तस्य क्रीडाजीवनस्य समाप्तिः अभवत्। अधुना सः प्रशासनिकभूमिकायां बाङ्ग्लादेशक्रिकेटाय नूतनां दिशं दातुं उत्तरदायित्वं वक्ष्यति।

-----------------------

Hindusthan Samachar / Dheeraj Maithani