Enter your Email Address to subscribe to our newsletters

वाराणसी, 08 जूनमासः (हि. स.)।
उत्तरप्रदेशस्य वाराणसीनगरे कैण्ट विधानसभाक्षेत्रे रामनगरस्थिते प्रभु नारायण राजकीय इण्टर कॉलेज परिसरस्य अन्तर्गतं चतुःकोटि द्वानवतिलक्षरूप्यकव्ययेन निर्मीयमाणस्य अत्याधुनिकस्य लघु आन्तरिकक्रीडाङ्गणस्य शिलान्यासः सम्पन्नः। कैण्टक्षेत्रस्य विधायकस्य सौरभ श्रीवास्तव महोदयस्य उपस्थितौ प्रभु नारायण राजकीय इण्टर कॉलेजस्य प्रधानाचार्येण अविनाश कुमार मिश्रेण तथा सेनानायकेन अनिल कुमार पाण्डेय महोदयेन शिलापट्टस्य अनावरणं कृतम्। कमाण्डेण्ट निवासस्य पुरतः आयोजितेन कार्यक्रमेण सह रामनगरे क्रीडायुवविकासयोः नवीनस्य अध्यायस्य आरम्भः अभवत्।
विधायकः सौरभ श्रीवास्तवः अवदत् यत् रामनगरे निर्मीयमाणम् एतत् लघु आन्तरिकक्रीडाङ्गणं रामनगरस्य विकासस्य दिशि ऐतिहासिकं पदक्षेपं सिद्ध्यति। क्रीडाः केवलं शारीरिकसामर्थ्यस्य विकासं न कुर्वन्ति, अपितु अनुशासनस्य, आत्मविश्वासस्य तथा नेतृत्वक्षमतायाः अपि निर्माणं कुर्वन्ति। अस्य क्रीडाङ्गणस्य निर्माणेन क्षेत्रस्य बालकेभ्यः युवभ्यश्च आधुनिकक्रीडासुविधाः उपलब्धाः भविष्यन्ति, येन तेषां प्रतिभायाः नूतनः आयामः प्राप्स्यते तथा च ते प्रदेशीयराष्ट्रीयस्तरेषु स्वपरिचयं स्थापयितुं समर्थाः भविष्यन्ति। रामनगरे क्रीडामूलसंरचनायाः विकासेन क्षेत्रस्य विकासरेखा परिवर्तिष्यते। एतत् क्रीडाङ्गणम् आगामिवर्षेषु अनेकेषां क्रीडकानां निर्माणं करिष्यति तथा च क्षेत्रस्य युवानां स्वप्नेभ्यः नूतनां गतिं प्रदास्यति।
अस्मिन् अवसरे सेनानायकः अनिल कुमार पाण्डेय महोदयः अपि विद्यार्थिनः क्रीडासु प्रेरयन् अवदत् यत् आधुनिकक्रीडासुविधानां लाभं स्वीकृत्य युवानः स्वभविष्याय नूतनां दिशं दातुं शक्नुवन्ति।
कार्यक्रमे राधा किशोरी राजकीय महिला इण्टर कॉलेजस्य प्रधानाचार्या अनुराधा पाण्डेयः, आशा गुप्ता, अभिषेक मिश्रः, अशोक जायसवाल, सन्तोष द्विवेदी, अनुपम गुप्ता, प्रीति सिंह, नन्दलाल चौहान, सृजन श्रीवास्तव, राजेन्द्र शङ्कर सिंह पटेलः, अजय प्रताप सिंहः, पार्षदा मोनिका यादव, पार्षदः लल्लन सोनकर, पार्षदः अमित सिंह चिन्टूः, जितेन्द्र पाण्डेयो, रितेश रायो, रितेश पाल, सन्तोष गुप्ता, राजकुमार सिंहः, विवेक मिश्रः, उदय श्रीवास्तवो, गोविन्द मौर्यः, आलोक सिंहः इत्यादयः तथा बहुसंख्यकाः शिक्षकाः, छात्राः, छात्र्यः, सामान्यजनाः तथा भारतीयजनतापक्षस्य कार्यकर्तारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani