Enter your Email Address to subscribe to our newsletters

देहरादूनम्,08 जूनमासः (हि.स.)। मन्त्रिमण्डलमन्त्री गणेशजोशी सोमवासरे शहीददुर्गामल्लमण्डलेन आयोजिते वृक्षारोपणकार्यक्रमे सहभागित्वा पर्यावरणसंरक्षणस्य सन्देशं प्रदत्तवान्। अस्मिन् अवसरे तेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया सञ्चाल्यमानस्य “एकः वृक्षः मातुः नाम्ना” अभियानस्य अन्तर्गतं देहरादूनस्य मक्कावालाक्षेत्रे एकस्य फलवृक्षस्य रोपणं कृतम्।
कार्यक्रमम् सम्बोधयन् मन्त्री गणेशजोशी उक्तवान् यत् पर्यावरणसंरक्षणं वर्तमानसमयस्य महत्तमा आवश्यकता अस्ति तथा च वृक्षारोपणम् अस्य कृते प्रभावी माध्यमम् अस्ति। तेन उक्तं यत् “एकः वृक्षः मातुः नाम्ना” अभियानं प्रकृतिसंरक्षणस्य सह मातृसम्मानस्य अपि प्रतीकम् अस्ति। तेन जनान् अधिकाधिकवृक्षारोपणं कर्तुं तेषां संरक्षणस्य च सङ्कल्पं स्वीकर्तुं आहूतवान्।
तेन उक्तं यत् वृक्षाः पर्यावरणसन्तुलनस्य संरक्षणेन सह आगामिसंततीनां कृते स्वच्छं सुरक्षितं च वातावरणं सुनिश्चितं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेन युवजनान् सामाजिकसङ्गठनानि च अस्मिन् अभियाने सक्रियसहभागितां निर्वोढुं प्रार्थितवान्। कार्यक्रमे शहीददुर्गामल्लमण्डलस्य पदाधिकारीणः, स्थानीयजनप्रतिनिधयः, युवानः तथा क्षेत्रीयनागरिकाश्च वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सङ्कल्पं स्वीकृतवन्तः।
अस्मिन् अवसरे दायित्वधारिणी ज्योतिकोटिया, जिलाउद्यानाधिकारी डीकैतिवारी, लक्ष्मणसिंहरावतः, मोहितखरोला, सुन्दरसिंहकोठालः, अनुरागसिंहः इत्यादयः बहुसंख्यकाः क्षेत्रवासिनः दलकार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani