Enter your Email Address to subscribe to our newsletters

शिमला, 08 जूनमासः (हि.स.)।राजधानी शिमलानगरे विद्युत्सञ्चारदूरसञ्चारतथा अन्यावश्यकसेवानां तारान् भूमेः अधः स्थापयितुं दिशि महत्त्वपूर्णं पदं स्थापितम् अस्ति। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू रविवासरसायङ्काले षट्चत्वारिंशदधिकद्विशतकोटिरूप्यकपरिमितायाः भूमिगतसुविधामार्गपरियोजनायाः शिलान्यासं कृतवान्। राज्यसर्वकारस्य कथनानुसारम् अस्याः परियोजनायाः माध्यमेन नगरस्य आधारभूतसुविधानां आधुनिकीकरणे, पुनः पुनः मार्गखनननिरोधे तथा शिमलानगरस्य सौन्दर्यवर्धने सहायता भविष्यति।
अस्याः परियोजनायाः अन्तर्गतं छोटाशिमला विलीपार्क चौडामैदानमार्गे, लोकभवन ओकओवरमार्गे तथा शेरएपञ्जाबतः सीटीओचतुष्पथपर्यन्तं निम्नबाजारमार्गे एकीकृतं भूमिगतसुविधामार्गजालं निर्मास्यते। अस्य पूर्णतायाः अनन्तरं विद्युत्दूरसञ्चारतथा अन्यसेवासम्बद्धाः रेखाः सुव्यवस्थितरूपेण भूमिगताः स्थापयितुं शक्यन्ते। अनेन मरम्मतसंरक्षणकार्याण्यपि सुकराणि भविष्यन्ति तथा च मार्गान् पुनः पुनः खनितुं आवश्यकता न्यूनतरा भविष्यति।
अस्मिन् अवसरे मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू उक्तवान् यत् राज्यसर्वकारः आधुनिकस्य स्थायिनः नागरिकावश्यकतानुसारिणः च नगरीयाधारसंरचनाविकासस्य प्रति प्रतिबद्धः अस्ति। तेन उक्तं यत् भूमिगतसुविधामार्गप्रणाल्या सेवानां गुणवत्ता अधिकोत्तमा भविष्यति तथा च मरम्मतकार्यकारणेन जनानां यत् कष्टं भवति तत् अपि न्यूनं भविष्यति।
मुख्यमन्त्री एतां परियोजनां शिमलानगरस्य परिवर्तनदिशि महत्त्वपूर्णं पदम् इति वर्णितवान्। तेन उक्तं यत् नगरे सर्वत्र दृश्यन्ते ये आकाशस्थितताराः ते अधुना भूमेः अधः स्थानान्तरिताः क्रियमाणाः सन्ति, येन नगरस्य दृश्यसौन्दर्यं वर्धिष्यते तथा च स्थानीयजनानां पर्यटकानां च कृते उत्तमः अनुभवः भविष्यति। तस्य मते एषा परियोजना शिमलानगरस्य निक्षेपस्य प्राकृतिकसौन्दर्यस्य च संरक्षणे अपि सहायिका भविष्यति।
तेन उक्तं यत् भूमिगतसुविधाजालस्य निर्माणानन्तरं विद्युत्तथा दूरसञ्चारसेवानां संरक्षणकार्यं सुकरं भविष्यति। सहैव अतिहिमपातस्य प्रतिकूलमौसमस्य च समये अपि विद्युत्सञ्चारसेवानां निर्विघ्नसञ्चालने सहायता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani