Enter your Email Address to subscribe to our newsletters

- वृद्धमात्रा सह आगता बालिका बीटेक-अध्ययनाय अभ्यर्थितवती, मुख्यमंत्रिणा आश्वस्ता
लखनऊ, 08 जूनमासः (हि.स.)।
सोमवासरे प्रातःकाले उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथो जनता-दर्शनम्’ अकरोत्। अस्मिन् अवसरे प्रदेशस्य विविधजनपदेभ्यः आगतैः जनैः सह तेन व्यक्तिगतभेटिका कृता, तेषां समस्याः श्रुताः तथा च तासां समाधानार्थं सम्बन्धिताधिकारिणः निर्देशिताः।
एतस्मिन् कार्यक्रमे एका बालिका स्वमात्रा सह उपस्थिताभूत्। सा अवदत् यत् तया उत्तमाङ्कैः अन्तरमाध्यमिक-परीक्षा उत्तीर्णा, अधुना च सा अभियान्त्रिकी-स्नातक-शिक्षां (बी-टेक्) प्राप्तुम् इच्छति, किन्तु आर्थिकाभावात् तस्याः अध्ययनमार्गे बाधा वर्तते। मुख्यमंत्री तस्याः अङ्कपत्रं निरीक्ष्य उक्तवान्— “त्वं अध्ययनाय सम्यक् ध्यानं कुरु। तव प्रवेशः लखनऊ-नगरे स्थिते कस्मिंश्चित् उत्तमे शिक्षासंस्थाने कारयिष्यते। निर्धनानां आवश्यकतान्वितानां वा विद्यार्थिनां शिक्षा कदापि बाधिता न भविष्यति।” एतादृशं सकारात्मकं सन्देशं श्रुत्वा बालिका तस्याः माता च अत्यन्तं प्रफुल्लिते अभवताम् तथा मुख्यमन्त्रिणः प्रति कृतज्ञताम् अर्पितवत्यौ।
विविधजनपदेभ्यः आगताः केचन फरियादिनः पुलिस-विभागस्य हीलाहवालीम्, अवैधाधिकारग्रहणसम्बद्धानां प्रकरणानां च विषये यथोचितकार्यवाही न भवतीति निवेदनपत्राणि समर्पितवन्तः। मुख्यमंत्री सर्वाणि प्रकरणानि सावधानतया श्रुत्वा शासनस्य अधिकारिभ्यः निर्देशम् अददात् यत् एतेषां विषयाणां नियमितरूपेण पर्यवेक्षणं क्रियताम्, पीडितेभ्यः न्यायः प्रदीयताम्, दोषिणां विरुद्धं च कठोरकार्यवाही क्रियताम्। सः पीडितान् शीघ्रसमाधानस्य आश्वासनमपि दत्तवान्।
केचन जनाः पूर्वं जनपदस्तरीयेषु अथवा मण्डलस्तरीयेषु कार्यालयेषु निवेदनं न कृत्वा प्रत्यक्षमेव ‘जनता-दर्शनम्’ उपस्थितवन्तः। तदा मुख्यमंत्री तान् अपृच्छत् यत् भवन्तः स्वीयां समस्यां कस्य अधिकारिणः समक्षं प्रस्तुतवन्तः। तेषां उत्तरं श्रुत्वा सः उक्तवान् यत् ग्रीष्मकालस्य तीव्रतायां सर्वे स्वस्वास्थ्यस्य विशेषं ध्यानं कुर्वन्तु तथा च प्रथमं जनपद-मण्डल-स्तरीयाधिकारिणां समक्षं स्वसमस्याः निवेदयन्तु, यतः बहूनां समस्याणां समाधानं तत्रैव सम्भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani