Enter your Email Address to subscribe to our newsletters


मुख्यमंत्री केंद्रीय मंत्री डॉ जितेंद्र सिंहश्च लखनऊनगरे क्षेत्रीयवातावरणकेंद्रस्य अकुरुतांशुभारंभम्
गतेषु 12वर्षेषु वातावरणविभागस्य 136तःअधिकानि स्थापितानि रडारनियंत्रणानि- केंद्रीय मंत्री जितेंद्र सिंहः
लखनऊ, 08 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः उक्तवान् यत् वातावरणसम्बद्धायाः यथार्थविश्वसनीयसूचनायाः प्राप्त्या न केवलं जनधनहानिः निवारयितुं शक्यते, अपितु कृष्युत्पादनमपि वर्धयितुं शक्यते। तेन उक्तं यत् वर्तमानकाले मौसमविभागः यथार्थां विश्वसनीयां च सूचना प्रददाति तथा च तस्मात् सामान्यजनाः लाभमपि प्राप्नुवन्ति। उत्तरप्रदेशसर्वकारः एतां व्यवस्था उपग्रहसहायतया अधिकोत्तमां कर्तुं सर्वथा सहयोगं दातुं सज्जः अस्ति।
मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे राजधानीलखनऊनगरे इन्दिरागान्धीप्रतिष्ठानस्य सभागारे वातावरणविज्ञानस्य लखनऊकेन्द्रस्य क्षेत्रीयमौसमविज्ञानकेन्द्ररूपेण रूपान्तरणस्य उपलक्ष्ये आयोजितं कार्यक्रमम् सम्बोधयन् आसीत्। तेन दूरसञ्चालनपद्धत्या अस्य शुभारम्भः कृतः।
अस्मिन् अवसरे केन्द्रीयविज्ञानप्रौद्योगिकीपृथ्वीविज्ञानराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः डाक्टरजितेन्द्रसिंहः तथा मौसमविभागस्य महानिदेशकः सहिताः अनेकाः वरिष्ठाधिकारिणः उपस्थिताः आसन्।
मुख्यमन्त्री योगी उक्तवान् यत् प्राचीनकाले मौसमस्य जलवायोः च गणना अनुमानं च भारतीयैः ऋषिभिः मनीषिभिश्च पञ्चाङ्गस्य माध्यमेन सम्यक् क्रियते स्म। अनेकाभिः लोकप्रवादैः परम्पराभिश्च मौसमसम्बद्धा यथार्थसूचना प्राप्यते स्म, किन्तु अधुना तन्त्रज्ञानयुगे अधिकोत्तमसूचनानाम् आवश्यकता वर्तते। तेन उक्तं यत् गतद्वादशवर्षेषु प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशेन सर्वेषु क्षेत्रेषु अभूतपूर्वा प्रगतिः कृता। यदि स्वातन्त्र्यप्राप्तेः अनन्तरमेव एतादृशं कार्यं कृतं स्यात् तर्हि अद्य कृषकाः कृषिकार्ये उत्तमां उत्पादकतां प्राप्नुयुः तथा च प्राकृतिकविपत्तिषु जनधनहानिरपि न्यूनतरा अभविष्यत्।
मुख्यमन्त्री उक्तवान् यत् प्रदेशसर्वकारेण जनपदस्तरात् विकासखण्डस्तरपर्यन्तं वर्षामापनार्थं उपकरणानि स्थापितानि सन्ति, येन कृषकाणां साहाय्यार्थं सस्यहान्याः सम्यग् आकलनं कर्तुं शक्यते।
तेन वातावरणविभागस्य प्रशंसां कुर्वन् उक्तं यत् वर्तमाने सः विभागः अतीव शीघ्रतया यथार्थान् विश्वसनीयान् च आँकडान् प्रददाति। तेन समीपकाले शाकुम्भरीदेवीमन्दिरपरिसरे जातस्य जलप्रलयस्य उल्लेखः कृतः तथा च उक्तं यत् घटनातः पूर्वं मौसमविभागस्य सतर्कसूचना प्राप्ता, यस्य फलतः सर्वे सुरक्षिताः रक्षिताः। किन्तु द्वे महिलाद्वयं निषेधस्य उपरान्तमपि जलप्रदेशं गतवत्यौ, तयोः मृत्युः अभवत्।
तेन उक्तं यत् पूर्वं प्रदेशस्य सोनभद्रमिर्जापुरादिषु क्षेत्रेषु आकाशीयविद्युत्पातेन प्रतिवर्षं शताधिकानां जनानां मृत्युः भवति स्म, किन्तु अधुना एषा संख्या द्वादशात् अपि न्यूना जाता। एतादृश्यः घटनाः स्थानीयस्तरे भवन्ति, यतः कदाचित् सूचना प्राप्ता सती अपि जनाः सावधानीं न पालयन्ति। निषेधस्य उपरान्तमपि बहिः स्थित्वा पशूनां व्यवस्थां कर्तुं निर्गमनात् एषा हानिः जायते। तेन उक्तं यत् सर्वकारः निरन्तरं राष्ट्रियविपदाप्रतिक्रियाबलस्य राज्यविपदाप्रतिक्रियाबलस्य मौसमविभागस्य च सह संयुक्तविमर्शेन कार्यं करोति। यदि एतादृशः उपग्रहः भवेत् यः केवलम् उत्तरप्रदेशस्य वातावरणसम्बद्धां पूर्णयथार्थसूचनां दद्यात्, तर्हि हानिः अधिकं न्यूनां कर्तुं शक्येत। अस्य कृते प्रदेशसर्वकारः मौसमविभागेन सह सर्वप्रकारेण सहयोगं कर्तुं सज्जः अस्ति।
समारोहस्य विशिष्टातिथिः केन्द्रीयराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः डाक्टरजितेन्द्रसिंहः उक्तवान् यत् पूर्वं उत्तरप्रदेशस्य उत्तराखण्डस्य च वातावरणविभागस्य क्षेत्रीयकार्यालयं दिल्लीनगरे आसीत्, किन्तु अद्य प्रभृति लखनऊनगरे क्षेत्रीयकार्यालयरूपेण कार्यारम्भः जातः। एतत् कार्यालयम् उत्तरप्रदेशस्य उत्तराखण्डस्य च कार्याणि निरीक्षिष्यति। तेन उक्तं यत् गतद्वादशवर्षेषु वातावरणविभागेन यावन्तः रडारयन्त्राणि उपकरणानि च स्थापितानि, तावन्ति पूर्वेषु पञ्चषष्टिवर्षेषु न स्थापितानि। तेन उक्तं यत् वर्षे २०१४ तमे केवलं चतुर्दश रडारयन्त्राणि आसन्, किन्तु अधुना तेषां संख्या शतपञ्चाशदधिकं जाता। आगामिद्विवर्षयोः अन्ते एषा संख्या द्विशतपर्यन्तं भविष्यति।
केन्द्रीयराज्यमन्त्री योगीआदित्यनाथाय तथा प्रदेशसर्वकाराय प्राप्तसहयोगस्य कृते धन्यवादं ज्ञापितवान्। तेन उक्तं यत् आगामिदिनेषु मौसमविभागः उत्तरप्रदेशे अधिकतीव्रतया कार्यं करिष्यति।
अस्मात् पूर्वं वातावरणविभागस्य पक्षतः मुख्यमन्त्री योगीआदित्यनाथः तथा केन्द्रीयराज्यमन्त्री जितेन्द्रसिंहः अङ्गवस्त्रेण पौधेन च सम्मानितौ।
उत्तरप्रदेशस्य उत्तराखण्डस्य च वातावरणस्य निरीक्षणं करिष्यति लखनऊकेन्द्रम्
लखनऊवातावरणकेन्द्रस्य क्षेत्रीयमौसमविज्ञानकेन्द्ररूपेण उन्नयनात् अनेकानि कार्याणि सुकराणि भविष्यन्ति। एतेन सह लखनऊकेन्द्राय उत्तरप्रदेशस्य उत्तराखण्डस्य च अधिकारक्षेत्रं प्राप्तं भविष्यति। क्षेत्रीयमौसमविज्ञानकेन्द्रस्य स्तरप्राप्त्या उत्तरप्रदेशे उत्तराखण्डे च वातावरणनिरीक्षणं, यथार्थपूर्वानुमानं, समयबद्धपूर्वचेतावनीसेवाश्च अधिकं सुदृढाः भविष्यन्ति। अनेन अतिवृष्टेः, प्रबलवातस्य, विद्युत्पातस्य तथा अन्यासां मौसमसम्बद्धघटनानां प्रति अधिकोत्तमा पूर्वसज्जा सम्भवा भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani