निराश्रिताःपशु-पक्षिणः सेवापि अस्माकं नैतिकं दायित्वम् : गणेश केसरवानी
भीषणोष्णतायां पशु-पक्षिणां तृष्णानिवृत्तये नगर निगमस्य अनुपम प्रयत्नः,प्रत्येकस्मिन् मतदानक्षेत्रे जलपात्रम् प्रयागराजः, 08 जूनमासः (हि.स.)।नगरनिगमः केवलं नागरिकसुविधासु एव सीमितः नास्ति, अपितु पर्यावरणसंरक्षणे पशुकल्याणे च पूर्णतया प्रतिबद्धः अ
जलपात्र रखवाते महापौर गणेश केसरवानी का छाया चित्र


भीषणोष्णतायां पशु-पक्षिणां तृष्णानिवृत्तये नगर निगमस्य अनुपम प्रयत्नः,प्रत्येकस्मिन् मतदानक्षेत्रे जलपात्रम्

प्रयागराजः, 08 जूनमासः (हि.स.)।नगरनिगमः केवलं नागरिकसुविधासु एव सीमितः नास्ति, अपितु पर्यावरणसंरक्षणे पशुकल्याणे च पूर्णतया प्रतिबद्धः अस्ति। भीषणे ग्रीष्मकाले निराश्रितपशुपक्षिणां कृते जलव्यवस्था करणम् अस्माकं नैतिकदायित्वम् अस्ति। इति वचनानि सोमवासरे महापौरः गणेशकेसरवानी नगरनिगमपरिसरे आयोजिते जलपात्रवितरणकार्यक्रमे उक्तवान्।

भीषणग्रीष्मस्य वर्धमानतापमानस्य च मध्ये नगरनिगमः प्रयागराजः निराश्रितपशुपक्षिणां तृष्णाशमनाय विशेषमभियानम् आरब्धवान्। पशुकल्याणविभागेन आयोजिते कार्यक्रमे नगरस्य सर्वेषु मतदातृक्षेत्रेषु पञ्च पञ्च जलपात्राणि वितरयितुं निर्णयः कृतः। एतानि जलपात्राणि सार्वजनिकस्थलेषु उद्यानेषु आवासक्षेत्रेषु तथा तादृशेषु स्थलेषु स्थाप्यन्ते, यत्र बहुसंख्यकाः निराश्रितपशवः पक्षिणश्च आगच्छन्ति गच्छन्ति च।

महापौरः गणेशकेसरवानी उक्तवान् यत् यथा नगरनिगमेन प्रमुखचतुष्पथेषु यात्रिकाणां कृते हरितच्छायायुक्तव्यवस्था शीतलजलपानव्यवस्था च कृता अस्ति, तथैव पशुपक्षिणां कृते अपि जलस्य उपलब्धता सुनिश्चितीक्रियते। सः नागरिकान् अपीलं कृतवान् यत् ते अपि स्वगृहाणां आपणानां प्रतिष्ठानानां च बहिः जलपात्राणि स्थापयन्तु, येन अधिकाधिकाः जीवाः लाभं प्राप्नुयुः।

सः उक्तवान् यत् एषा प्रारंभिका केवलं पशुपक्षिणां तृष्णाशमनपर्यन्तं सीमिता नास्ति, अपितु समाजे जीवेषु प्रति संवेदनशीलतायाः दयायाः करुणायाश्च भावनां वर्धयितुमपि प्रयत्नः अस्ति। नगरनिगमस्य उद्देश्यं पर्यावरणसंरक्षणेन सह जैवविविधतासंरक्षणस्य अपि संवर्धनम् अस्ति।

कार्यक्रमे अपरनगरआयुक्तः अरविन्दरायः अपरनगरआयुक्तः राजीवशुक्लः च नगरनिगमस्य एतां पहलं पशुकल्याणस्य दिशि सकारात्मकं मानवीयं च पदक्षेपम् इति उक्तवन्तौ। तौ उक्तवन्तौ यत् जनसहभागितया एतादृशानि अभियानानि अधिकं प्रभावशालीनि भवितुं शक्नुवन्ति।

अस्मिन् अवसरे पार्षदा सुनीताचोपडा, कुसुमलता, आशीषयादवः, मुकेशलारा, श्यामप्रकाशपाण्डेयः, शिवसेवकसिंहपटेलः, हिमालयसोनकरः, सन्दीपकेसरवानी, सुभाषचन्द्रवैश्यः इत्यादयः अनेके जनप्रतिनिधयः नगरनिगमस्य अधिकारिणश्च उपस्थिताः आसन्। “

---------------

Hindusthan Samachar / Dheeraj Maithani