Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०८ जूनमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथ-महोदयेन उत्तरप्रदेश-आरक्षी-नियुक्ति-तथा-प्रोन्नति-मण्डलेन आयोजितायाम् आरक्षी-नागरिक-आरक्षक-तथा-समकक्ष-पदानां नियुक्ति-परीक्षायां सम्मिलितानां अभ्यर्थिनां हितार्थं महत्त्वपूर्णः निर्णयः कृतः। मुख्यमन्त्रिणः निर्देशानुसारं परीक्षायां सम्मिलितेभ्यः अभ्यर्थिभ्यः राज्य-परिवहन-निगमस्य बसयानेषु यात्राकाले भाटके ५० प्रतिशत-न्यूनता प्रदास्यते।
मुख्यमन्त्री उक्तवान् यत् प्रदेश-सर्वकारः यूनां कृते पारदर्शिनीं निष्पक्षां सुविधायुक्तां च नियुक्ति-प्रक्रियां प्रदातुं प्रतिबद्धः अस्ति। नियुक्ति-परीक्षायां बहुसंख्यकानां अभ्यर्थिनां विभिन्नेषु जनपदेषु आवागमनं दृष्ट्वा एषः निर्णयः कृतः, येन तेषां आर्थिक-न्यूनता भवेत् तथा परीक्षा-केन्द्रं प्रति गमनकाले कापि असुविधा न भवेत्।
उत्तरप्रदेश-आरक्षी-नियुक्ति-तथा-प्रोन्नति-मण्डलेन आयोजिता आरक्षी-नागरिक-आरक्षक-तथा-समकक्ष-पदानां नियुक्ति-परीक्षा ०८, ०९ तथा १० जून-दिनेषु प्रतिदिनं द्वयोः पर्याययो: आयोजिता भविष्यति। अस्यां परीक्षायां प्रायः २९ लक्ष-अभ्यर्थिनां सहभागिता सम्भाव्यते।
मुख्यमन्त्रिणः निर्णयानुसारं परीक्षायां सम्मिलिताः अभ्यर्थिनः स्वप्रवेशपत्रं प्रदर्श्य उत्तरप्रदेश-राज्य-मार्ग-परिवहन-निगमस्य बसयानेषु ५० प्रतिशत-रियायती-भाटकस्य लाभं प्राप्स्यन्ति। एषा व्यवस्था परीक्षा-अवधौ अभ्यर्थिनां सुविधार्थं प्रवर्तिता भविष्यति।
मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् परीक्षायाः सफल-शान्तिपूर्ण-आयोजनार्थं सर्वाः आवश्यक-व्यवस्थाः सुनिश्चिताः क्रियन्ताम्, येन अभ्यर्थिभ्यः सुरक्षिते, सुगमे, अनुकूल-वातावरणे च परीक्षां दातुं अवसरः प्राप्येत।
उल्लेखनीयं यत् उत्तरप्रदेश-आरक्षी (सिपाही) नागरिक-आरक्षक-प्रत्यक्ष-नियुक्ति-२०२५ इत्यस्य लिखित-परीक्षा अद्य आरभ्यते। एषा परीक्षा ०८, ०९ तथा १० जून-दिनेषु प्रदेशस्य सर्वेषु ७५ जनपदेषु आयोजिता भविष्यति। नियुक्ति-प्रक्रियायाः अन्तर्गतं ३२,६७९ पदानां कृते २८,८६,७९७ अभ्यर्थिभिः आवेदनं कृतम् अस्ति। परीक्षायाः सफल-निष्पक्ष-सञ्चालनार्थं प्रदेशव्यापि १,१८३ परीक्षा-केन्द्राणि निर्मितानि सन्ति।
परीक्षा प्रतिदिनं द्वयोः पर्याययो: आयोजिता भविष्यति। प्रथम: पर्याय: प्रातः १०:०० वादनतः मध्याह्नं १२:०० वादनपर्यन्तं तथा द्वितीय: पर्याय: अपराह्णे ३:०० वादनतः सायं ५:०० वादनपर्यन्तं सञ्चालित: भविष्यति। अभ्यर्थिभ्यः प्रश्नपत्र-समाधानाय निर्धारित-समयात् अतिरिक्तं पञ्च निमेषाः अपि प्रदास्यन्ते। त्रिषु दिनेषु षट्-पर्यायेषु परीक्षा सम्पन्ना भविष्यति।
Hindusthan Samachar / Divya Ranjan