उत्तरप्रदेशारक्षिनियुक्तिपरीक्षा : प्रथमदिनस्य प्रथमपालिकापरीक्षाः समस्तेषु केंद्रेषु शुभारब्धाः
लखनऊ, 08 जूनमासः (हि.स.)।उत्तरप्रदेशारक्षिणः आरक्षी नागरिकारक्षिप्रत्यक्षनियुक्तेः २०२५ लिखितपरीक्षायाः प्रथमदिने प्रथमपाल्याः परीक्षा अद्य प्रातः दशवादनात् आरब्धा। अभ्यर्थिनां सघनपरीक्षणानन्तरमेव प्रवेशः प्रदत्तः। नियुक्तिपरिषद् निष्पक्षां नकलरहि
निरीक्षण करते अधिकारी


परीक्षा केंद्र पर जाते अभ्यर्थी


नजर रखने के लिए बनाए केंद्र का निरीक्षण करते अधिकारी


लखनऊ, 08 जूनमासः (हि.स.)।उत्तरप्रदेशारक्षिणः आरक्षी नागरिकारक्षिप्रत्यक्षनियुक्तेः २०२५ लिखितपरीक्षायाः प्रथमदिने प्रथमपाल्याः परीक्षा अद्य प्रातः दशवादनात् आरब्धा। अभ्यर्थिनां सघनपरीक्षणानन्तरमेव प्रवेशः प्रदत्तः। नियुक्तिपरिषद् निष्पक्षां नकलरहितां च परीक्षां सम्पादयितुं शासनस्य जिल्लाप्रशासनस्य च सहकार्येण पुलिसविभागेन कठोरव्यवस्थाः कृताः सन्ति। सॉल्वरगिरोहस्य ग्रहणार्थं उत्तरप्रदेश विशेषकार्यदलम्, स्थानीयगुप्तसूचनाविभागः तथा पुलिसविभागः सक्रियीकृताः सन्ति।

भर्तीपरिषदः अध्यक्षः एस बी शिरडकर महोदयः अवदत् यत् उत्तरप्रदेशपुलिसस्य आरक्षी नागरिकपुलिस प्रत्यक्षभर्ती २०२५ इत्यस्य लिखितपरीक्षा सोमवासरात् प्रारब्धा अस्ति। एषा परीक्षा जूनमासस्य अष्टम, नवम तथा दशमदिनेषु प्रदेशस्य सर्वेषु पञ्चसप्ततिजिल्लासु आयोजिता भविष्यति। भर्तीप्रक्रियायां कुलं द्वात्रिंशत्सहस्राणि षट्शतानि एकोनाशीतिपदानि सन्ति, येषां कृते अष्टाविंशतिलक्षाणि षडशीतिसहस्राणि सप्तशतानि सप्तनवतिः अभ्यर्थिनः आवेदनं कृतवन्तः। परीक्षायाः सफलनिष्पक्षसञ्चालनार्थं प्रदेशे कुलं एकसहस्रं त्र्यशीत्यधिकशतं परीक्षा केन्द्राणि निर्मितानि सन्ति। रविवासरस्य सायंकालादेव परीक्षा केन्द्रेषु पुलिसबलस्य नियुक्तिः कृता आसीत्।

तेन उक्तं यत् जौनपुरजिल्लायां एकविंशतिपरीक्षाकेन्द्रेषु कुलं षट्पञ्चाशत्सहस्राणि अष्टशतानि अशीतिः अभ्यर्थिनः सम्मिलिताः सन्ति। परीक्षा केन्द्रेषु स्थिरन्यायाधिकारिणः, क्षेत्रन्यायाधिकारिणश्च नियुक्ताः सन्ति। सर्वेषु परीक्षा केन्द्रेषु सीसीटीवी चित्रग्राहकयन्त्रैः निरीक्षणं क्रियते। एवं च औरैयाजिल्लायां दश परीक्षा केन्द्राणि निर्मितानि सन्ति। प्रत्येकस्यां पाल्यां चतुःसहस्राणि त्रिशतानि अष्टषष्टिः अभ्यर्थिनः परीक्षायाम् उपविशन्ति। जिलाधिकारी बृजेश कुमारः, पुलिसाधीक्षकः अभिषेक भारती महोदयश्च पूर्वमेव परीक्षा केन्द्राणां निरीक्षणं कृत्वा सुरक्षाव्यवस्थां सुनिश्चितवन्तौ। त्रिदिनात्मकायां अस्यां परीक्षायां देवरियाजिल्लायाः द्वादश केन्द्रेषु कुलं एकोनत्रिंशत्सहस्राणि नवशतानि द्विपञ्चाशत् अभ्यर्थिनः स्वभाग्यपरीक्षां करिष्यन्ति। प्रथमदिने द्वयोः पाल्योः नवसहस्राणि नवशतानि चतुरशीतिः अभ्यर्थिनः परीक्षायां सम्मिलिताः भविष्यन्ति।

परीक्षा प्रतिदिनं द्वयोः पालिकयोः आयोजिता भविष्यति। प्रथमपाली प्रातः दशवादनात् मध्याह्नद्वादशवादनपर्यन्तं तथा द्वितीयपाली मध्याह्नत्रिवादनात् सायं पञ्चवादनपर्यन्तं सञ्चालिता भविष्यति। अभ्यर्थिभ्यः प्रश्नपत्रसमाधानार्थं निर्धारितकालस्य अतिरिक्तं पञ्चनिमेषाः अपि प्रदास्यन्ते। त्रिषु दिनेषु कुलं षट्पाल्यः सम्पन्नाः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् मुख्यमंत्री योगी आदित्यनाथ महोदयेन उत्तरप्रदेशपुलिसनियुक्तिप्रोन्नतिपरिषदेन आयोजितायां आरक्षी नागरिकपुलिस तथा समकक्षपदभर्तीपरीक्षायां सम्मिलितानाम् अभ्यर्थिनां हितार्थं महत्त्वपूर्णः निर्णयः कृतः। मुख्यमन्त्रिणः निर्देशानुसारं परीक्षायां सम्मिलितेभ्यः अभ्यर्थिभ्यः राज्यपरिवहननिगमस्य बसयानेषु यात्राकाले शुल्के पञ्चाशत्प्रतिशतपरिमिता रियायत् प्रदास्यते। मुख्यमंत्री अवदत् यत् प्रदेशशासनं युवभ्यः पारदर्शिनीं निष्पक्षां सुविधाजनकां च नियुक्तिप्रक्रियां प्रदातुं प्रतिबद्धम् अस्ति। भर्तीपरीक्षायां बहुसंख्यया अभ्यर्थिनां विभिन्नेषु जनपदेषु आवागमनं दृष्ट्वा एषः निर्णयः कृतः, येन ते आर्थिकराहतिं प्राप्नुयुः तथा च परीक्षा केन्द्रं प्रति गमनकाले कापि असुविधा न भवेत्।

----------------------

Hindusthan Samachar / Dheeraj Maithani