स्वच्छतायां शैथिल्यं न सोढव्यं, स्वच्छ और स्वस्थः प्रयागराजः अस्मत्संकल्प : गणेश केसरवानी
औचक निरीक्षण कर महापौर ने नाला, नाली और सफाई व्यवस्था का लिया जायजा, अधिकारियों को दिए सख्त निर्देश प्रयागराजः, 08 जूनमासः (हि.स.)। “स्वच्छसुन्दरस्वस्थप्रयागराजनिर्माणार्थं नगरनिगमः पूर्णप्रतिबद्धतया कार्यं कुर्वन् अस्ति। स्वच्छतायां कस्यापि प्रका
क्षेत्र में चल रहे सफाई कार्यों का निरीक्षण करते हुए महापौर गणेश केसरवानी


औचक निरीक्षण कर महापौर ने नाला, नाली और सफाई व्यवस्था का लिया जायजा, अधिकारियों को दिए सख्त निर्देश

प्रयागराजः, 08 जूनमासः (हि.स.)। “स्वच्छसुन्दरस्वस्थप्रयागराजनिर्माणार्थं नगरनिगमः पूर्णप्रतिबद्धतया कार्यं कुर्वन् अस्ति। स्वच्छतायां कस्यापि प्रकारस्य प्रमादः कदापि न सह्यते। इति वचनानि सोमवासरे महापौरः गणेश केसरवानी वार्डसङ्ख्या ३० कृष्णानगर कीडगञ्जक्षेत्रे नालस्य नालिकानां मार्गाणां वीथीनां च स्वच्छताव्यवस्थायाः आकस्मिकनिरीक्षणसमये उक्तवान्।

महापौरेण क्षेत्रे प्रचलमानानां स्वच्छताकार्याणां स्थलीयनिरीक्षणं कृत्वा तेषां गुणवत्तायाः नियमिततायाश्च समीक्षा कृता। अस्मिन् अवसरे तेन स्थानीयनागरिकैः सह संवादं कृत्वा तेषां समस्याः श्रुताः तथा च सम्बद्धाधिकारिभ्यः त्वरितसमाधानार्थं निर्देशाः प्रदत्ताः। निरीक्षणसमये महापौरेण नालिकानां नियमितस्वच्छता जलनिर्गमनव्यवस्थायाः सम्यक् संरक्षणं तथा आगामिवर्षाकालं दृष्ट्वा सम्भावितजलसञ्चयसमस्यायाः निवारणार्थं प्रभाविकार्ययोजनानिर्माणस्य निर्देशाः दत्ताः। तेन उक्तं यत् नागरिकानां जलसञ्चयादिसमस्याभ्यः राहतिं प्रदातुं नगरनिगमः पूर्णगाम्भीर्येण कार्यं करोति।

महापौरः अधिकारिणः कर्मचारिणश्च चेतयन् अवदत् यत् स्वच्छताकार्येषु प्रमादः दृश्यते चेत् उत्तरदायिनां विरुद्धं कार्यवाही विधास्यते। तेन स्वच्छताकर्मचारिणां नियमितनिगराण्याः स्वच्छतासम्बद्धपरिवादानां च समयबद्धनिस्तारणस्य विषये विशेषबलं दत्तम्। तेन उक्तं यत् स्वच्छता केवलं नगरनिगमस्य उत्तरदायित्वं नास्ति अपितु प्रत्येकस्य नागरिकस्यापि कर्तव्यं वर्तते। जनसहभागितया एव नगरं स्वच्छं सुन्दरं विकसितं च कर्तुं शक्यते। नगरनिगमः नगरस्य सर्वेषु वार्डेषु उत्तमस्वच्छतां जनसुविधाश्च सर्वोच्चप्राथमिकतया विकसितुं कार्यं करोति।

निरीक्षणसमये क्षेत्रीयपार्षदः मुकेश लारा, बब्बन प्रजापति, रुद्रसेन जायसवाल, प्रमोद मोदी, गिरी बाबा, गिरिजेश मिश्र, टी एन दीक्षित, मनोज मिश्र, विवेक मिश्र, हिमालय सोनकर, अजय अग्रहरिः, बॉबी सोनकर, जोनल अधिकारी जॉन कर, विकास कुमार, अभियन्ता राम सक्सेना, अपरनगरआयुक्तः राजीव शुक्ला, कुलदीप गोस्वामी इत्यादयः नगरनिगमस्य अधिकारिणः कर्मचारीणश्च तथा च बहुसंख्यकाः क्षेत्रीयनागरिकाः उपस्थिताः आसन्।

अन्ते महापौरः अवदत् यत् स्वच्छसुन्दरविकसितप्रयागराजः अस्माकं सामूहिकः सङ्कल्पः अस्ति। नगरनिगमः जनसहभागितया सह एतस्य लक्ष्यस्य प्राप्त्यर्थं निरन्तरं कार्यं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani