हनुमान-राम मेलन प्रसंगं श्रुत्वा भाव-विपूर्णाः संजाताः श्रद्धालवो, जयकारेण गूंजितं कथा पंडालम्
मीरजापुरम्, 08 जूनमासः (हि.स.)।हलियाक्षेत्रस्य गड़बड़ा शीतला धाम्नि आयोजिते शतचण्डी महायज्ञे संगीतमयरामकथायाश्च षष्ठे दिवसे सोमवासरे भक्तिभावस्य अनुपमं वातावरणं दृष्टिगोचरम् अभवत्। परशुराम अखाड़ा प्रयागराजस्य तत्त्वावधाने प्रवर्तमानायां कथायां यज्ञ
गडबडा धाम में राम कथा सुनाते धीरज द्विवेदी।


मीरजापुरम्, 08 जूनमासः (हि.स.)।हलियाक्षेत्रस्य गड़बड़ा शीतला धाम्नि आयोजिते शतचण्डी महायज्ञे संगीतमयरामकथायाश्च षष्ठे दिवसे सोमवासरे भक्तिभावस्य अनुपमं वातावरणं दृष्टिगोचरम् अभवत्। परशुराम अखाड़ा प्रयागराजस्य तत्त्वावधाने प्रवर्तमानायां कथायां यज्ञाचार्यः धीरज द्विवेदी महाराजः रामायणस्य हनुमत राममिलनं सुग्रीवप्रसङ्गं च भावपूर्णतया वर्णितवान्, यत् श्रुत्वा श्रद्धालवः भावविभोराः अभवन्।

कथावाचकेन उक्तं यत् मातुः सीतायाः अन्वेषणे वनं वनं भ्रमन्तौ भगवान् रामः लक्ष्मणश्च ऋष्यमूकपर्वतं प्राप्तवन्तौ। तत्र सुग्रीवः तयोः परिचयं ज्ञातुं हनूमन्तं ब्राह्मणवेषे प्रेषितवान्। हनूमान् प्रभोः चरणयोः प्रणम्य तयोः परिचयं पृष्टवान्। यदा तस्मै भगवान् रामस्य स्वरूपस्य बोधः अभवत्, तदा सः स्वस्य वास्तविकरूपेण प्रकटितः भूत्वा प्रभोः चरणयोः पूर्णतया समर्पितः अभवत्।

स्वामी धीरज द्विवेदी अवदत् यत् एषः केवलं द्वयोः व्यक्त्योः मिलनप्रसङ्गः नास्ति, अपितु भक्तस्य भगवतः च दिव्यमिलनस्य प्रसङ्गः अस्ति। तेन उक्तं यत् स एव सत्यः सेवकः भवति यः विना उक्त्या स्वामिनः मनोभावं पीडां च अवगच्छति। हनूमतः भक्ति समर्पणं च अद्यापि मानवजीवनाय प्रेरणास्रोतः अस्ति।

तेन सुग्रीवप्रसङ्गस्य उल्लेखं कुर्वता उक्तं यत् मित्रतायाः पालनमेव महत्तमः धर्मः अस्ति। वचनं दत्त्वा तत् विस्मर्तुं पापतुल्यं भवति। जीवने विश्वासस्य निष्ठायाः कर्तव्यपालनस्य च विशेषं महत्त्वम् अस्ति। कथाकाले सम्पूर्णः पण्डालः जय श्रीराम जय हनुमान इति जयघोषैः गुञ्जितः अभवत्। श्रद्धालवः कथाश्रवणं कृत्वा भक्तिरसे निमग्नाः आसन्।

अस्मिन् अवसरे महेन्द्र बाबा, पूर्वप्रधानः शिव गरुड तिवारी, पूर्वमण्डलाध्यक्षः ज्ञानेश्वर दूबे, दिनेश तिवारी, मङ्गलधारी मिश्र, रविशङ्कर तिवारी इत्यादयः सहस्रशः श्रद्धालवः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani