Enter your Email Address to subscribe to our newsletters

नैनीतालनगरम्, ०८ जूनमासः (हि.स.)। देवभूमि-उत्तराखण्ड-स्वच्छता-कर्मचारी-संघस्य नैनीताल-नगरपालिका-शाखायाः अग्रिमे १४ जूनमासे भविष्यमाणानां निर्वाचनानां निमित्तं नामाङ्कन-प्रक्रिया अद्य सम्पन्ना अभवत्। अस्यां प्रक्रियायां मुख्य-निर्वाचन-अधिकारी-अमित-सहदेव-महोदयस्य नेतृत्वे विविध-पदेषु प्रत्याशिनः नामाङ्कन-पत्राणि समर्पितवन्तः।
अध्यक्ष-पदाय त्रिलोचन-टांकः, धर्मेश-प्रसाद-मर्दानः, धीरज-कटियारः तथा कमल-सिलेलानः नामाङ्कनं कृतवन्तः। उपाध्यक्ष-पदाय रवि-कुमारः, कमल-कुमारः, संजय-कुमारश्च, सचिव-पदाय सोनू-सहदेवः, धर्मेन्द्र-कुमारः, धीरज-कटियारश्च तथा उपसचिव-पदाय मुकेश-कुमारः दीपक-कुमारश्च नामाङ्कनं कृतवन्तः।
नामाङ्कन-प्रक्रियायाः सफल-समापनाय मुख्य-निर्वाचन-अधिकारी-अमित-सहदेव-महोदयेन सह निर्वाचन-अधिकारी मनोज-चौहानः, मनोज-कुमारः, राहुलः तथा दिनेश-रत्नाकरः अपि सहभागिनः आसन्।
Hindusthan Samachar / Divya Ranjan