विदिशाः जनपरामर्शोपवेसनेऽद्य समाननागरिकसंहितायां विभिन्न वर्गाणां प्रतिनिधयः करिष्यन्ति मंथनम्
भोपालम्, 08 जूनमासः (हि.स.)। मध्यप्रदेशे समाननागरिकसंहितायाः संबंधे अध्ययनपरीक्षणयोः कृते गठितया उच्चस्तरीयसमित्या जनपरामर्शप्रक्रियायाः अन्तर्गतं अद्य सोमवासरे विदिशायां महत्त्वपूर्णा उपवेशनसभा आयोज्यते। उपवेशनसभायां विभिन्नवर्गाणां प्रतिनिधयः
यूसीसी (प्रतीकात्मक)


भोपालम्, 08 जूनमासः (हि.स.)।

मध्यप्रदेशे समाननागरिकसंहितायाः संबंधे अध्ययनपरीक्षणयोः कृते गठितया उच्चस्तरीयसमित्या जनपरामर्शप्रक्रियायाः अन्तर्गतं अद्य सोमवासरे विदिशायां महत्त्वपूर्णा उपवेशनसभा आयोज्यते।

उपवेशनसभायां विभिन्नवर्गाणां प्रतिनिधयः समाननागरिकसंहितायाः विषये विमर्शं करिष्यन्ति।

जनसम्पर्काधिकारी बी डी अहिरवाल महोदयेन उक्तं यत् उपवेशनसभा कलेक्ट्रेटे अपराह्णे त्रिवादने त्रिंशन्मिनिटसमये आयोजिता अस्ति, यस्याः अध्यक्षतां समितेः सदस्यः शिक्षाविद् प्रो गोपाल शर्मा महोदयः करिष्यति। उपवेशनसभायाः उद्देश्यं समाननागरिकसंहितायाः संबंधे समाजस्य विभिन्नवर्गेभ्यः जनप्रतिनिधिभ्यः सामाजिकसङ्गठनेभ्यः तथा सामान्यनागरिकेभ्यः सुझावान् विचारांश्च प्राप्तुम् अस्ति, यथा राज्यसर्वकाराय व्यापकजनमतस्य आधारेण अनुशंसाः प्रस्तुताः कर्तुं शक्येरन्।

प्रशासनेन उपवेशनसभायां सांसदान् विधायकान् विभिन्नराजनीतिकदलानां प्रतिनिधीन् बारकाउंसिलसंबद्धान् सदस्यान् महिला बालाधिकारसंरक्षणक्षेत्रस्य विशेषज्ञान् शान्तिसमितेः सदस्यान् सामाजिकसङ्गठनानां पदाधिकारिणः विभिन्नसमुदायानां प्रतिनिधीन् तथा अन्यान् जनप्रतिनिधीन् आमन्त्रयितुं व्यवस्था सुनिश्चितीक्रियते।

पारदर्शितायाः अभिलेखीकरणस्य च उद्देश्येन सम्पूर्णायाः उपवेशनसभायाः वीडियोग्राफी कारयिष्यते तथा सर्वेषां उपस्थितप्रतिभागिनां उपस्थितेः अभिलेखनाय विशेषव्यवस्था भविष्यति। एषा जनपरामर्शउपवेशनसभा समाननागरिकसंहिता इव महत्त्वपूर्णे विषये समाजस्य विभिन्नवर्गाणां मतं ज्ञातुं लोकतान्त्रिकसंवादं च सुदृढं कर्तुं दिशि महत्त्वपूर्णा पहल इति मन्यते। अस्याः उपवेशनसभायाः प्राप्ताःपरामर्शाः राज्यस्तरे नीतिनिर्माणप्रक्रियायां सहायकाः सिद्धाः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani