इण्डी-गठबन्धनस्य अधुना कश्चिदपि अस्तित्वः न विद्यते - दिलीप-घोषः
कोलकातानगरम्, ०८ जूनमासः (हि.स.)।पश्चिमबङ्गप्रदेशस्य पंचायतमन्त्री दिलीपघोष: विपक्षिणः इण्डी-गठबन्धनस्य विषये कटाक्षं कृत्वा उक्तवान् यत् अधुना अस्य गठबन्धनस्य किमपि अस्तित्वं न शेषम् अस्ति। सोमवासरे प्रातःकाले पत्रकारैः सह संवादकाले दिलीप-घोषः अव
पश्चिम बंगाल सरकार के मंत्री दिलीप घोष


कोलकातानगरम्, ०८ जूनमासः (हि.स.)।पश्चिमबङ्गप्रदेशस्य पंचायतमन्त्री दिलीपघोष: विपक्षिणः इण्डी-गठबन्धनस्य विषये कटाक्षं कृत्वा उक्तवान् यत् अधुना अस्य गठबन्धनस्य किमपि अस्तित्वं न शेषम् अस्ति।

सोमवासरे प्रातःकाले पत्रकारैः सह संवादकाले दिलीप-घोषः अवदत् यत् अस्य गठबन्धनस्य वस्तुतः किञ्चिदपि अस्तित्वं न विद्यते। पूर्वं इण्डी-गठबन्धनस्य कस्यामपि सभायां ममता बनर्जी न सहभागं करोति स्म, किन्तु अधुना तस्यां भागग्रहणाय सा बाध्यतां प्राप्नोति इति सः अवदत्।

सः उक्तवान् यत् तस्याः दलस्य विधायकाः सांसदाः च अपि तया सह न सन्ति। कश्चन विधायकः, सांसदः अथवा पार्षदः सक्रियः न दृश्यते; ते स्वकार्यालयेषु अपि न आगच्छन्ति। तृणमूल-काङ्ग्रेस-दलम् सत्ता-त्यागानन्तरं शीघ्रमेव विघटितं भवति इति सः आरोपितवान्।

उल्लेखनीयम् अस्ति यत् सोमवासरे नवदेहलीनगरे विपक्षिणः इण्डी-गठबन्धनस्य सभायाः आयोजनं क्रियते। विगत-१० मासानां मध्ये एषा प्रथमा सभा अस्ति। अस्मिन् काले पञ्चसु राज्येषु विधानसभानिर्वाचनानि अपि सम्पन्नानि आसन्।

Hindusthan Samachar / Divya Ranjan