Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 08 जूनमासः, (हि.स.)।
बहुचर्चितस्य जुबीन हत्याकाण्डस्य श्रवणप्रक्रिया अद्य विशेषद्रुतन्यायालये आरभ्यते। प्रकरणस्य न्यायिकप्रक्रियायाः अन्तर्गतं अद्य एव प्रथमे दिने न्यायालयः चतुर्णां साक्षिणां साक्ष्यवचनानि तथा प्रमाणानि मूल्याङ्कयिष्यति।
न्यायालयेन अस्मिन् प्रकरणे साक्ष्यदानाय मोरीगांवस्य तत्कालीनः पुलिस अधीक्षकः हेमन्तकुमार दास तथा प्रथमसूचनापत्रस्य प्रणेता रातुल बोरा आहूतौ स्तः।
एतदतिरिक्तं मोरीगांव सदर थाना इत्यस्य तत्कालीनः प्रभारी प्रणव सैकिया तथा उपनिरीक्षकः भास्कर बर्मन अपि न्यायालये उपस्थित्य साक्ष्यदानाय आहूतौ स्तः।
प्रकरणस्य श्रवणप्रक्रियायाः आरम्भेन सह अद्यतः हत्याकाण्डसम्बद्धानां तथ्याणां प्रमाणानां च न्यायिकपरीक्षणस्य महत्त्वपूर्णः चरणः आरभ्यते।
----------
Hindusthan Samachar / Dheeraj Maithani