कृषिक्षेत्राणाम् उर्वरतां रक्षितुं जैविकी व संतुलिता कृषिः अंगीकरणीया : धर्मेंद्र कुमारः
कानपुरम्, 09 जूनमासः (हि.स.)। कृषाणां स्वास्थ्यस्य उर्वरक्षमतायाश्च संरक्षणार्थं कृषकैः जैविकप्राकृतिककृषेः दिशि गन्तव्यम्। रासायनिकपोषकतत्त्वानां संतुलितप्रयोगः, मृदायाः नियमितपरीक्षणं, एकीकृतपोषकतत्त्वप्रबन्धनस्य च अवलम्बनेन कृषिः अधिका लाभकारिणी
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 09 जूनमासः (हि.स.)। कृषाणां स्वास्थ्यस्य उर्वरक्षमतायाश्च संरक्षणार्थं कृषकैः जैविकप्राकृतिककृषेः दिशि गन्तव्यम्। रासायनिकपोषकतत्त्वानां संतुलितप्रयोगः, मृदायाः नियमितपरीक्षणं, एकीकृतपोषकतत्त्वप्रबन्धनस्य च अवलम्बनेन कृषिः अधिका लाभकारिणी कर्तुं शक्यते। एतानि वचनानि मंगलवासरे कानपुरमण्डलस्य संयुक्तकृषिनिदेशकः धर्मेन्द्रकुमारः क्षेत्ररक्षणाभियानस्य अन्तर्गतं आयोजिते जागरूकताकार्यक्रमे उक्तवान्।

चन्द्रशेखरआजादकृषिप्रौद्योगिकीविश्वविद्यालयस्य अधीनसञ्चालितेन कृषि विज्ञान केन्द्रेण दिलीपनगरेण कृषिविभागेन च संयुक्ततत्त्वावधाने विकासखण्डस्य मैथाक्षेत्रस्य औरंगाबादग्रामे पाण्डेयनिवादाग्रामे च क्षेत्ररक्षणाभियानस्य अन्तर्गतं जागरूकताकार्यक्रमः आयोजितः।

कार्यक्रमे कृषिवैज्ञानिकः डा खलीलखानः कृषकेभ्यः मृदायाः स्वास्थ्यसुधारणविषये, जैविकप्राकृतिककृष्योः अवलम्बनविषये, रासायनिकपोषकतत्त्वानां संतुलितप्रयोगविषये च सूचना प्रदत्ता। तेन कृषकाः स्वक्षेत्राणां मृदापरीक्षणं कारयित्वा प्रतिवेदनस्य आधारेण पोषकतत्त्वानां प्रयोगं कर्तुम् उपदिष्टाः। तथा च यूरियाडीएपीयोः अतिप्रयोगेन जायमानहानिविषये सूचना प्रदाय एकीकृतपोषकतत्त्वप्रबन्धनस्य तन्त्रेषु प्रशिक्षणं दत्तम्।

डा खलीलखानेन जीवामृतस्य, घनजीवामृतस्य, बीजामृतस्य, सनै ढैंच इत्यादीनां हरितखादानां तथा वर्मीकम्पोस्टस्य निर्माणोपयोगविधीनां विषये अपि सूचना प्रदत्ता। तेन उक्तं यत् एतेषाम् उपायानाम् अवलम्बनेन मृदायाः उर्वरता वर्धयितुं शक्यते, उत्पादनव्ययश्च न्यूनीकर्तुं शक्यते।

मुख्यातिथिः धर्मेन्द्रकुमारः कृषकान् प्रधानमन्त्रीकिसानसम्माननिधेः, किसानक्रेडिटकार्डस्य, फसलबीमायोजनायाश्च लाभग्रहणाय प्रेरितवान्। तेन क्षेत्रेषु आर्द्रतां धारयितुं भूजलस्तरस्य संरक्षणाय च उन्नतसिञ्चनतन्त्राणाम् अवलम्बने बलं दत्तम्।

कार्यक्रमे बीजभण्डारप्रभारी दीपककुमारः, शीलेशकटियारः, प्राविधिकसहायकः दीपकराजपूतः तथा प्रगतिशीलकृषकाः चरणसिंहः, अशोककुमारः, बबलू इत्यादयः बहुसंख्यकाः कृषकाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani