आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायां पश्चिम-बङ्गालस्य समावेशः, देशव्यापि योजनायाः विस्तारः पूर्णः
नवदेहली, ०८ जूनमासः (हि.स.)। देशस्य वृहत्तमा सर्वकारीया स्वास्थ्य-बीमा-योजना आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायाम् अधुना पश्चिम-बङ्गाल-राज्यमपि सम्मिलितम् अभवत्। अनेन सह अस्याः योजनायाः राष्ट्रिय-स्तरे पूर्णः विस्तारः सम्पन्नः जातः। इयं य
समझौता


नवदेहली, ०८ जूनमासः (हि.स.)। देशस्य वृहत्तमा सर्वकारीया स्वास्थ्य-बीमा-योजना आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायाम् अधुना पश्चिम-बङ्गाल-राज्यमपि सम्मिलितम् अभवत्। अनेन सह अस्याः योजनायाः राष्ट्रिय-स्तरे पूर्णः विस्तारः सम्पन्नः जातः। इयं योजना अधुना सर्वेषु ३६ राज्येषु केन्द्रशासित-प्रदेशेषु च प्रवर्तते। पश्चिम-बङ्गालस्य समावेशेन राज्यस्य प्रायः १.४३ कोटि-परिवाराः अस्याः योजनायाः अन्तर्गतं प्रतिवर्षं ५ लक्ष-रुप्यक-पर्यन्तं स्वास्थ्य-सुरक्षा-लाभं प्राप्स्यन्ति।

सोमवासरे विज्ञान-भवने आयोजिते समारोहे राष्ट्रिय-स्वास्थ्य-प्राधिकरणस्य पश्चिम-बङ्गाल-सर्वकारस्य च मध्ये अवबोधन-पत्रे (एमओयू) हस्ताक्षराणि कृतानि। कार्यक्रमस्य अध्यक्षतां केन्द्रीय-स्वास्थ्य-मन्त्री जगत-प्रकाश-नड्डा-महोदयः कृतवान्। अस्मिन् अवसरे पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः, केन्द्रीय-राज्यमन्त्री अनुप्रिया-पटेल-महोदया, पश्चिम-बङ्गाल-सर्वकारस्य वरिष्ठ-अधिकारिणः स्वास्थ्य-मन्त्रालयस्य अधिकारिणश्च उपस्थिताः आसन्।

देशस्य वृहत्तमायाः स्वास्थ्य-योजनायाः पश्चिम-बङ्गाले कार्यान्वयनस्य अवसरं ऐतिहासिकम् इति वर्णयन् केन्द्रीय-स्वास्थ्य-मन्त्री जे.पी.-नड्डा-महोदयः अवदत् यत् आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजना वर्षे २०१८ तमे प्रारब्धा आसीत्, अधुना च सा विश्वस्य वृहत्तमा सर्वकारीया स्वास्थ्य-सुरक्षा-योजना जाता अस्ति। अद्यावधि अस्याः योजनायाः अन्तर्गतं १२ कोटिभ्यः अधिकाः चिकित्सोपचाराः सम्पन्नाः, येषां समग्र-व्ययः १.८२ लक्ष-कोटि-रुप्यकेभ्यः अधिकः अस्ति।

अस्याः योजनायाः माध्यमेन निर्धन-मध्यमवर्गीय-परिवारेभ्यः गम्भीर-रोगाणां चिकित्सायां महत् आर्थिक-साहाय्यं भविष्यति। योजनायाः अन्तर्गतं उपचारः नगदरहितः पत्ररहितश्च भविष्यति तथा च रोगिणः देशस्य ३६,००० अधिकेषु सूचीकृत-चिकित्सालयेषु उपचारं प्राप्तुं शक्नुवन्ति।

तेन एतदपि उक्तं यत् अस्याः योजनायाः कारणेन निर्धन-परिवाराणां स्वकीय-व्ययः उल्लेखनीय-रूपेण न्यूनीभूतः अस्ति। यः वर्षात् २०१८ पूर्वं ६४.६ प्रतिशतं आसीत्, सः अधुना प्रायः ४३.४ प्रतिशतं यावत् न्यूनः जातः। नड्डा-महोदयः अवदत् यत् योजनायाः स्थानान्तर-सुविधायाः कारणेन पश्चिम-बङ्गालस्य प्रवासी-श्रमिकाः देशस्य कस्मिन्नपि राज्ये उपचारं प्राप्स्यन्ति तथा च नगदरहित-सुविधायाः लाभं लप्स्यन्ते। तेन उक्तं यत् एचपीवी-टीकाकरण-कार्यक्रमादिभिः प्रयासैः किशोरीषु गर्भाशय-ग्रीवा-कर्कटरोगस्य निवारणं सुदृढीकृतं क्रियते। पश्चिम-बङ्गालेऽपि अस्य दिशि अद्यतनकाले टीकाकरण-अभियानं प्रारब्धम् अस्ति।

अस्मिन् अवसरे पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः राज्ये स्वास्थ्य-सेवानां सुदृढीकरणाय भारत-सर्वकारस्य निरन्तर-सहयोगस्य कृते कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् राष्ट्रिय-स्वास्थ्य-अभियानस्य अन्तर्गतं भारत-सर्वकारेण अधुना पश्चिम-बङ्गालाय ५२७ कोटि-रुप्यकाणि प्रदत्तानि, येन राज्ये स्वास्थ्य-सेवा-अवसंरचना तथा सेवा-वितरण-व्यवस्था अधिकं सुदृढा भविष्यति।

मुख्यमन्त्रिणा पश्चिम-बङ्गाले आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायाः कार्यान्वयनस्य स्वागतं कृतम्। तेन उक्तं यत् राज्यस्य प्रायः १.२४ कोटि-पात्र-परिवाराः अधुना अस्याः योजनायाः अन्तर्गतं स्वास्थ्य-सुरक्षा-लाभं प्राप्स्यन्ति, येन तेषां वित्तीय-सुरक्षा गुणवत्तायुत-स्वास्थ्य-सेवाप्राप्तिश्च सुनिश्चिते भविष्यतः। तेन पुनः उक्तं यत् आशा-कार्यकर्तृभ्यः, आङ्गनवाडी-कार्यकर्तृभ्यः तथा वरिष्ठ-नागरिकेभ्यः अपि समावेशे कृते लाभार्थि-परिवाराणां कुल-संख्या १.४३ कोटिः भविष्यति। अधिकारी-महोदयः निवारक-स्वास्थ्य-सेवा: प्रति राज्य-सर्वकारस्य प्रतिबद्धतामपि प्रकाशयामास। तेन उक्तं यत् पूर्व-सर्वकारस्य कार्यकाले ७.५ लक्षाधिकाः एचपीवी-टीका-मात्राः आवंटिताः आसन्, वर्तमान-सर्वकारेण तु टीकाकरण-कार्यक्रमः अधिकं प्रवर्धितः अस्ति।

पश्चिम-बङ्गाल-सर्वकारस्य मुख्य-सचिवः मनोज-कुमार-अग्रवाल-महोदयः अवदत् यत् एषा योजना राज्ये स्वास्थ्य-सेवानां सुदृढीकरणे सहायकं भविष्यति तथा च प्रायः ११ कोटि-जनानाम् अप्रत्यक्ष-लाभाय कारणं भविष्यति। तेन उक्तं यत् एतत् पादक्षेपः स्वास्थ्य-क्षेत्रे महत् परिवर्तनम् आनयिष्यति।

Hindusthan Samachar / Dheeraj Maithani