गत-पञ्चवर्षेषु अतिक्रमणकारिभ्यः २०० वर्ग-किलोमीटराधिकभूमिः पुनः प्राप्ता - मुख्यमन्त्री
गुवाहाटीनगरम्, ०९ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-शर्मा-महोदयः सोमवासरस्य रात्रौ अनेकासां उच्चस्तरीय-सभानां अध्यक्षतां कृतवान्। सभानन्तरं सः उक्तवान् यत् सर्वकारीय-भूमेः अतिक्रमणात् विमोचनं राज्यसर्वकारस्य प्रमुख-प्राथमिक
असमः विभिन्न विभागों की चर्चा के लिए उच्चस्तरीय बैठक की अध्यक्षता करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


गुवाहाटीनगरम्, ०९ जूनमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-शर्मा-महोदयः सोमवासरस्य रात्रौ अनेकासां उच्चस्तरीय-सभानां अध्यक्षतां कृतवान्। सभानन्तरं सः उक्तवान् यत् सर्वकारीय-भूमेः अतिक्रमणात् विमोचनं राज्यसर्वकारस्य प्रमुख-प्राथमिकतासु अन्यतमा अस्ति। तस्य अनुसारं सर्वकारेण गत-पञ्चवर्षेषु अतिक्रमणकारिभ्यः २०० वर्ग-किलोमीटराधिकभूमिः पुनः प्राप्ता अस्ति।

मुख्यमन्त्री सभायां स्वीकृतानां निर्णयानां विषये सामाजिक-माध्यमे ‘एक्स’ इत्यत्र सूचनां दत्त्वा उक्तवान् यत् अधुना दृढानि पदानि स्वीकृतानि सन्ति, येन एतत् सुनिश्चितं भविष्यति यत् अतिक्रमणकारिणः एतासु भूमिषु पुनः कदापि अधिकारं न प्राप्नुयुः।

मुख्यमन्त्री शिक्षा-, स्वास्थ्य- तथा विद्युत्-विभागान् निर्देशितवान् यत् ते तादृशानां महत्त्वपूर्ण-परियोजनानां परिचयं कुर्वन्तु, याः केन्द्रसर्वकारस्य व्यवहार्यता-अन्तर-वित्तपोषण-योजना (वीजीएफ) अन्तर्गतं समावेशयितुं शक्यन्ते। सः उक्तवान् यत् अस्याः योजनायाः लाभग्रहणेन आधारभूत-संरचनानां विकासः त्वरितो भविष्यति तथा च विशाल-जनोपयोगी-परियोजनानां आर्थिक-व्यवहार्यता सुदृढा भविष्यति, येन असमस्य विकास-गतिः अधिकं बलं प्राप्स्यति।

डॉ.शर्मा उक्तवान् यत् सर्वकारः कृषि-आधारभूत-संरचनासु निवेशं वर्धयितुं, जीआई-चिह्नाङ्कितानां तथा जैविक-उत्पादानां निर्यातकानां साहाय्यं कर्तुं, केन्द्रसर्वकारात् प्राप्त-सहायतायाः अधिकतमं लाभं च ग्रहीतुं सर्वान् सम्भवान् प्रयत्नान् करिष्यति। सः ‘कृषि-आधारभूत-संरचना-निधेः’ (एआईएफ) महत्त्वम् अधोरेखितवान् तथा च अवदत् यत् केन्द्रसर्वकारेण अस्य कार्यक्रमस्य अन्तर्गतं असमाय पूर्ण-सहायतायाः आश्वासनं दत्तम् अस्ति।

मुख्यमन्त्री विभागान् एतदपि निर्देशितवान् यत् ते कृषकाणां, कृषि-उत्पादकानां तथा अन्येषां सम्बन्धित-पक्षाणां मध्ये उत्तमं समन्वयं स्थापयन्तु, येन निर्यात-विपणान् प्रति गमन-सुलभता वर्धेत। सः उक्तवान् यत् अस्य प्रयत्नस्य उद्देश्यं कृषकाणां आय-वृद्धिः अस्ति, तथा च देशीय-अन्ताराष्ट्रिय-कृषि-वाणिज्ययोः असमस्य स्थितेः सुदृढीकरणमपि अस्ति।

Hindusthan Samachar / Divya Ranjan