विकसित भारतस्य आधारःसामाजिक न्यायो, महिला सशक्तिकरणं जनभागिता च : सावित्री ठाकुरः
रायपुरम्, 09 जूनमासः (हि.स.)।केन्द्रीयमहिलाबालविकासराज्यमन्त्री सावित्रीठाकुरः उक्तवती यत् विकसितभारतस्य सङ्कल्पः केवलम् आर्थिकप्रगतेः लक्ष्यं नास्ति, अपितु सामाजिकन्यायस्य, अवसरसमतायाः, महिलासशक्तीकरणस्य, युवजनानां कृते उत्तमावसरप्रदानस्य तथा समाज
बिलासपुर में विकसित भारत संकल्प सम्मेलन को संबोधित करते हुए श्रीमती ठाकुर


रायपुरम्, 09 जूनमासः (हि.स.)।केन्द्रीयमहिलाबालविकासराज्यमन्त्री सावित्रीठाकुरः उक्तवती यत् विकसितभारतस्य सङ्कल्पः केवलम् आर्थिकप्रगतेः लक्ष्यं नास्ति, अपितु सामाजिकन्यायस्य, अवसरसमतायाः, महिलासशक्तीकरणस्य, युवजनानां कृते उत्तमावसरप्रदानस्य तथा समाजस्य अन्तिमजनपर्यन्तं विकासलाभप्रापणस्य राष्ट्रियम् अभियानम् अस्ति।

तया उक्तं यत् वर्षपर्यन्ते २०४७ विकसितराष्ट्रनिर्माणार्थं जनसहभागिता सर्वाधिकं महत्त्वपूर्णम् आधारम् अस्ति तथा च केन्द्रीयसर्वकारस्य जनकल्याणकारीयोजनानां लाभः प्रत्येकं पात्रजनं प्रति प्रापयितुम् अस्माकं सर्वेषां सामूहिका उत्तरदायित्वपूर्णा भूमिका अस्ति।

बिलासपुरे विकसितभारतसङ्कल्पसम्मेलनं सम्बोधयन्ती सावित्रीठाकुर उक्तवती यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतम् अद्य वैश्विकस्तरे द्रुतगत्या उदयमानशक्तिरूपेण स्वपरिचयं निर्माति। आयातनिर्यातयोः, औद्योगिकविकासे, शिक्षाक्षेत्रे, स्वास्थ्यसेवायाम्, कृषिक्षेत्रे, आधारसंरचनाविकासे तथा सामाजिकसशक्तीकरणे देशः निरन्तरं नवीनाः उपलब्धीः अर्जयति।

तया उक्तं यत् यदा यदा देशस्य पुरतः आव्हानानि समुपस्थितानि, तदा तदा प्रधानमन्त्रिणा नरेन्द्रमोदिना दूरदर्शिनेत्रृत्वेन दृढसङ्कल्पेन च राष्ट्राय नूतना दिशा प्रदत्ता। तस्य नेतृत्वे भारतम् आत्मनिर्भरता, सुशासनम् तथा समावेशिविकासस्य मार्गे अग्रे प्रगतिं करोति। एषः देशः अस्माकं सर्वेषाम् अस्ति तथा च विकसितभारतनिर्माणे प्रत्येकस्य नागरिकस्य महत्त्वपूर्णा भूमिका वर्तते।

सावित्रीठाकुरः उक्तवती यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वप्नम् अस्ति यत् भारतं विश्वे श्रेष्ठभारतं, समृद्धभारतं, विकसितभारतं च रूपेण प्रतिष्ठाप्येत। अस्य लक्ष्यस्य सिद्ध्यर्थं जनप्रतिनिधिभिः, सामाजिकसङ्गठनैः, युवभिः, महिलाभिः, कृषकैः, श्रमिकैः तथा समाजस्य प्रत्येकेन वर्गेण एकत्रितभावेन कार्यं करणीयम्। विकसितभारतस्य स्वप्नं केवलं शासकीयप्रयत्नैः न साकारं भविष्यति, अपितु जनसहभागितया सामूहिकसङ्कल्पेन च साकारं भविष्यति।

सम्मेलनं सम्बोधयन् केन्द्रीयआवासननगरीयकार्यमन्त्री तोखनसाहू उक्तवान् यत् गतद्वादशवर्षेषु प्रधानमन्त्रिणः मोदीमहोदयस्य नेतृत्वे देशेन सुशासनस्य, पारदर्शितायाः, जनकल्याणस्य च क्षेत्रेषु अभूतपूर्वाः उपलब्धयः प्राप्ताः। प्रधानमन्त्रीजनधनयोजना, प्रधानमन्त्रीगरीबकल्याणअन्नयोजना, प्रधानमन्त्रीआवासयोजना, स्वच्छभारतमिशन, प्रधानमन्त्रीउज्ज्वलायोजना, प्रधानमन्त्रीकिसानसम्माननिधियोजना तथा आयुष्मानभारतीयोजना इत्यादिभिः उपक्रमैः कोटिशः जनानां जीवने सकारात्मकपरिवर्तनम् अभवत्।

तेन उक्तं यत् अनुच्छेदस्य ३७० निरसनम्, अयोध्यायां भव्यश्रीराममन्दिरनिर्माणम्, राष्ट्रियसुरक्षायाः सुदृढीकरणम्, आतङ्कवादविरुद्धं निर्णायककार्यवाही, चन्द्रयानमिशन उपक्रमस्य सफलता तथा प्रभाविनी विदेशनीतिः विश्वमञ्चे भारतस्य प्रतिष्ठां नूतनशिखराणि प्रति नीतवती। अद्य विश्वं भारतं सुदृढम् आत्मविश्वासयुक्तम् निर्णायकनेतृत्वसम्पन्नं राष्ट्रं रूपेण पश्यति।

कार्यक्रमे पूर्वमन्त्री अमरअग्रवालः, पूर्वप्रतिपक्षनेता धरमलालकौशिकः, विधायकः धर्मजीतसिंहः, जनप्रतिनिधयः, भारतीयजनतापक्षस्य पदाधिकारिणः, कार्यकर्तारः तथा बहुसंख्यकाः नागरिकाः उपस्थिताः आसन्।।

---------------

Hindusthan Samachar / Dheeraj Maithani