मोदी सर्वकारस्य 12 वर्षाणि पूर्णानि नितिन नवीनस्य कृतायाः प्रदर्शन्याः उद्घाटनम्
नव दिल्ली, 09 जूनमासः (हि.स.)।भारतीयजनतापक्षस्य दीनदयालोपाध्यायमार्गे स्थिते मुख्यालये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रस्य एनडीए सर्वकारस्य द्वादशवर्षपूर्णताया उपलक्ष्ये एका विशालप्रदर्शनी आयोजिता अस्ति। अस्याः उद्घाटनं भाजपायाः राष्
भाजपा मुख्यालय में लगी प्रदर्शनी का उद्घाटन करते नितिन नवीन


प्रदर्शनी का अवलोकन करते हुए भाजपा अध्यक्ष नितिन नवीन


नव दिल्ली, 09 जूनमासः (हि.स.)।भारतीयजनतापक्षस्य दीनदयालोपाध्यायमार्गे स्थिते मुख्यालये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रस्य एनडीए सर्वकारस्य द्वादशवर्षपूर्णताया उपलक्ष्ये एका विशालप्रदर्शनी आयोजिता अस्ति। अस्याः उद्घाटनं भाजपायाः राष्ट्रीयाध्यक्षेण नितिननवीनेन कृतम्। अस्मिन् अवसरे तेन उक्तं यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे देशः सेवा सुशासनस्य जनकल्याणस्य च नूतनयुगे प्रविष्टः अस्ति तथा च सः भारतस्य इतिहासे दीर्घतमकालं यावत् लोकतान्त्रिकरीत्या निर्वाचितः प्रधानमन्त्री भवितुं मार्गे अग्रसरः अस्ति। पक्षस्य मुख्यालये कार्यकर्तृणां कृते आयोजितायां प्रदर्शिन्यां प्रधानमन्त्रीणः नरेन्द्रमोदिनः नेतृत्वे राजगसर्वकारस्य द्वादशवर्षाणां प्रमुखसिद्धयः चित्रमाध्यमेन प्रदर्शिताः सन्ति।

नितिननवीनेन उक्तं यत् विगतेषु द्वादशवर्षेषु दरिद्रकल्याणे कृषकसमृद्धौ महिलासशक्तीकरणे युवजनानां कृते अवसरप्रदाने स्वास्थ्यसेवाविस्तारे डिजिटलपरिवर्तने आधारभूतसंरचनायाः अभूतपूर्वविकासे च नूतना गतिः प्राप्ता अस्ति। तेन उक्तं यत् प्रधानमन्त्रीणः मोदिनः ‘प्रधानसेवक’ भावः सेवायाः प्रति समर्पणं च देशाय परिवर्तनस्य नूतनां दिशं प्रदत्तवान्। सहैव तेन विकसितभारत २०४७ इति लक्ष्यस्य सामूहिकप्रयत्नैः साकारीकरणस्य संकल्पः पुनरुच्चारितः।

अस्मात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी अपि एनडीएसर्वकारस्य द्वादशवर्षपूर्णतायां देशवासिनः सम्बोधयन् उक्तवान् यत् एषः कालः विश्वासविकासजनकल्याणेभ्यः समर्पितः आसीत्। तेन एक्स इति माध्यमे उक्तं यत् १४० कोटि देशवासिनाम् आशीर्वादैः ‘नेशन फर्स्ट’ इति भावनया च युवजनानां महिलानां कृषकाणां च सशक्तीकरणाय निरन्तरं कार्यं कृतम्। प्रधानमन्त्री उक्तवान् यत् आधारभूतसंरचनाविकासात् आरभ्य डिजिटलक्रान्तेः पर्यन्तं भारतेन वैश्विकस्तरे नूतना परिचितिः प्राप्ता तथा च विकसितभारतस्य संकल्पस्य साकारीकरणाय सर्वकारः सेवा सुशासनसमृद्धीनां मार्गे अग्रे गच्छति भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani