Enter your Email Address to subscribe to our newsletters


जयपुरनगरम्, ०९ जूनमासः (हि.स.)। मुख्यमन्त्री-भजनलाल-शर्मा-महोदयेन मङ्गलवासरे गिरिराजधरणस्य प्रायः एकविंशति-कि.मी.-परिमिता परिक्रमा भक्तिभावेन सम्पन्ना। स्वस्य द्विदिवसीय-डीग-प्रवासकाले मुख्यमन्त्री सपत्नीक: पूँछरीका-लौठा-स्थिते श्रीनाथजी-मन्दिरे दर्शनं कृतवान्।
ततः सः मुकुट-मुखारविन्द-मन्दिरस्य तलहट्यां दुग्ध-जलाभिषेकं कृत्वा गिरिराज-महोदयस्य विधिवत् पूजार्चनां कृतवान् तथा च प्रदेशस्य निरन्तर-समृद्ध्यै सुख-शान्ति-सम्पत्त्यै च मङ्गल-कामनां प्रकटितवान्।
तदनन्तरं मुख्यमन्त्री श्रीनाथ-मन्दिर-परिसरे उपस्थितेभ्यः साधुजनाय, स्थानीय-नागरिकेभ्यः तथा दूरदूरात् आगतेभ्यः श्रद्धालुभ्यः स्वहस्तेन प्रसादं वितरितवान्। अस्मिन् अवसरे सः श्रद्धालुभिः सह आत्मीय-संवादं कृत्वा यात्राकाले उपलब्धानां सुविधानां विषये सूचनां प्राप्तवान्।
उल्लेखनीयम् अस्ति यत् मुख्यमन्त्री सोमवासरे सायंकाले सप्तकोशीय-परिक्रमां प्रारब्धवान् या मङ्गलवासरे प्रातः प्रायः चतुर्वादने सम्पन्ना। सः पूँछरीका-लौठा-स्थाने आमजनैः सह अपि मिलितवान्।
विकास-कार्याणां विषये मुख्यमन्त्री भरतपुर-डीग-जनपदयोः वरिष्ठाधिकारिभिः सह सभां कृत्वा क्षेत्रस्य विकास-योजनानां चर्चा कृत्वा आवश्यकानि निर्देशानि दत्तवान्। अस्मिन् अवसरे गृह-राज्यमन्त्री जवाहरसिंह-बेढमः, राजस्थान-धरोहर-प्राधिकरणस्य अध्यक्षः ओंकारसिंह-लखावतः, विधायकौ डॉ. शैलेषसिंहः तथा बहादुरसिंह-कोली इत्यादयः जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan