Enter your Email Address to subscribe to our newsletters

- विकसित भारताय दृढविधायी संस्थाः सहभागी लोकतंत्रं च आवश्यकम्
चंडीगढम्, 09 जूनमासः (हि.स.)।
लोकसभाध्यक्षः ओमविरला उक्तवान् यत् विधानमण्डलानाम् कार्यवाही पुनः पुनः बाधिता भवति तथा च व्यवधानानाम् उत्पत्तिः लोकतान्त्रिकसंस्थानानाम् पुरतः गम्भीरम् आव्हानम् अस्ति। तेन रेखाङ्कितम् यत् अस्याः समस्यायाः समाधानं जनापेक्षानुरूपाचारस्य संवादस्य सार्थकविमर्शस्य च संवर्धने निहितम् अस्ति। जनविश्वासस्य सुदृढीकरणम् अद्य सर्वेषाम् जनप्रतिनिधीनाम् महत्तमा उत्तरदायित्वपूर्णा भूमिका अस्ति। सः कॉमनवेल्थपार्लियामेण्ट्रीएसोसिएशन इण्डियारिजन जोन द्वितीय उत्तरक्षेत्रस्य द्वितीयसम्मेलनस्य समापनसमारोहम् सम्बोधयन् आसीत्।
तेन जनप्रतिनिधीनाम् आह्वानम् कृतम् यत् विधानसंस्थासु तेषाम् आचरणम् अनुकरणीयं भवेत्, येन समाजस्य अन्तिमजनस्य कल्याणम् सुनिश्चितम् कर्तुम् शक्येत। विरलाद्वारा उक्तम् यत् यादृशम् नेतृत्वस्य आचरणम् व्यवहारश्च भवति तादृशमेव समाजस्य स्वरूपम् भवति। जनतया वयम् निर्वाचिताः प्रेषिताश्च स्मः, अतः अस्माकम् आचरणस्य प्रत्यक्षः प्रभावः समाजे भवति। तेन अपेक्षा व्यक्ता यत् सर्वे विधायकाः स्वस्वराज्येषु संस्थासु च एतान् सङ्कल्पान् आत्मसात् कृत्वा अग्रे गमिष्यन्ति।
द्विदिवसीयसम्मेलनस्य सफलायोजनविषये सन्तोषम् प्रकटयन् विरला उक्तवान् यत् विभिन्नराज्येभ्यः आगताः जनप्रतिनिधयः नीतिनिर्मातारश्च अत्र स्वानुभवान् दृष्टिकोणान् नवोन्मेषान् च विनिमयितवन्तः। तेन सूचितम् यत् एतत् सम्मेलनम् चतुर्भिः महत्त्वपूर्णैः सङ्कल्पैः सह सम्पन्नम् अस्ति, येषाम् लक्ष्यं विधानसंस्थानाम् अधिकप्रभावित्वम् उत्तरदायित्वम् जनोन्मुखता च वर्धयितुम् अस्ति।
तेन उक्तम् यत् विकसितभारतस्य स्वप्नम् सुदृढसंसदीयविधानसंस्थानाम् आधारे एव प्रतिष्ठितम् अस्ति। एतदर्थम् जनसहभागितायाः वर्धनम्, प्रौद्योगिक्याः अधिकतमोपयोगः, विधायकानाम् क्षमतासंवर्धनम्, नीतिनिर्माणे विधिनिर्माणे च नागरिकाणाम् सहभागितायाः सुनिश्चितीकरणम्, संविधानस्य संवैधानिकसंस्थानानाम् च विषये जागरूकतावर्धनम् अत्यन्तम् आवश्यकम् अस्ति। तेन अग्रे उक्तम् यत् सम्मेलने पारिताः सर्वे सङ्कल्पाः भविष्यस्य सुदृढाधाररूपाः सन्ति, येषाम् माध्यमेन देशस्य विधानलोकतान्त्रिकसंस्थानि जनसहयोगेन अग्रे प्रगतिम् करिष्यन्ति।
अस्याम् द्विदिवसीयायाम् सीपीए इण्डियारिजन जोन द्वितीय उत्तरक्षेत्रसम्मेलनपरम्परायाम् देशस्य द्वादशराज्यानाम् विधानमण्डलानाम् पीठासीनाधिकारिणः सहभागिनः अभवन्। अस्मिन् सीपीए जोन द्वितीयस्य सदस्यराज्यानि हरियाणा, पञ्जाब, हिमाचलप्रदेशः, जम्मूकश्मीरः, दिल्ली च इत्येतेषाम् अतिरिक्तम् मध्यप्रदेशः, महाराष्ट्रं, गोवा, उत्तरप्रदेशः, राजस्थानं, सिक्किमः, पश्चिमबङ्गालः च इत्यादीनाम् राज्यविधानमण्डलानाम् पीठासीनाधिकारिणः अपि सहभागिनः अभवन्।
अवसरे अस्मिन् राज्यसभायाः उपसभापतिः हरिवंशः तथा हरियाणाविधानसभाध्यक्षः हरविन्द्रकल्याणः अपि स्वविचारान् व्यक्तवन्तौ। हरियाणाविधानसभायाः उपाध्यक्षः कृष्णलालमिड्ढा धन्यवादज्ञापनम् अकरोत्।
---------------
Hindusthan Samachar / Dheeraj Maithani