इतिहास-पृष्ठेषु १० जूनमासः - यदा भारतीय-दलेन लॉर्ड्स-क्रीडाङ्गणे प्रथम-ऐतिहासिक-टेस्ट-विजयः प्राप्त:
भारतीय-क्रिकेट-इतिहासे १० जूनमासस्य दिवसः स्वर्णाक्षरैः लिखितः अस्ति। अस्मिन्नेव दिने वर्षे १९८६ भारतदेशेन क्रिकेट-जगति अतिप्रतिष्ठिते लॉर्ड्स-क्रीडाङ्गणे प्रथम-टेस्ट-विजयः प्राप्तः, यः भारतीय-क्रिकेटस्य ऐतिहासिकः क्षणः अभवत्। नायक-कपिलदेव-महोदयस्य
इतिहास-पृष्ठेषु १० जूनमासः - यदा भारतीय-दलेन लॉर्ड्स-क्रीडाङ्गणे प्रथम-ऐतिहासिक-टेस्ट-विजयः प्राप्त:


भारतीय-क्रिकेट-इतिहासे १० जूनमासस्य दिवसः स्वर्णाक्षरैः लिखितः अस्ति। अस्मिन्नेव दिने वर्षे १९८६ भारतदेशेन क्रिकेट-जगति अतिप्रतिष्ठिते लॉर्ड्स-क्रीडाङ्गणे प्रथम-टेस्ट-विजयः प्राप्तः, यः भारतीय-क्रिकेटस्य ऐतिहासिकः क्षणः अभवत्। नायक-कपिलदेव-महोदयस्य नेतृत्वे भारतीय-दलेन इंग्लैण्ड-दलं पञ्च-विकेटैः पराजितम्, येन अद्भुतं कीर्तिमानं स्थापितम्।

लॉर्ड्स-क्रीडाङ्गणं “क्रिकेटस्य मक्का” इति ख्यातम् अस्ति। तादृशे ऐतिहासिके स्थले विजयः सर्वेषां कृते गौरवस्य विषयः मन्यते। १९८६-इंग्लैण्ड-यात्रायां प्रथम-टेस्ट-स्पर्धायां भारतस्य विजयस्य सम्भावना न्यूनैः एव अपेक्षिता आसीत्, किन्तु भारतीय-क्रीडकाणां उत्कृष्ट-प्रदर्शनेन सर्वे विस्मिताः अभवन्।

स्पर्धायां इंग्लैण्ड-दले प्रथम-इन्निङ्ग्से २९४ धावनाङ्काः कृताः। प्रत्युत्तररूपेण भारतीय-दले संयमयुक्तं प्रदर्शनं कृत्वा ३४१ धावनाङ्कान् अर्जित्वा महत्त्वपूर्णां अग्रता प्राप्ता। अनेन भारतं स्पर्धायां सुदृढस्थितौ स्थापितम्।

द्वितीय-इन्निङ्ग्से भारतीय-कन्दूकक्षेपकै: उत्कृष्टं प्रदर्शनं कृत्वा इंग्लैण्ड-दलं केवलं १८० धावनाङ्केषु एव सीमितम्। ततः भारतस्य विजयार्थं १३४ धावनाङ्कानां लक्ष्यं निर्धारितम्। भारतीय-बल्लेबाजैः समस्यास्थित्यां अपि आत्मविश्वासेन लक्ष्यं प्राप्तं, पञ्च-विकेटहान्या सह विजयः अर्जितः।

अयं विजयः केवलं लॉर्ड्स-क्रीडाङ्गणे प्रथम-टेस्ट-विजयः नासीत्, अपि तु विदेशभूमौ भारतीय-क्रिकेटक्रीडाया: वर्धमान-शक्तेः प्रमाणम् अपि अभवत्। अयं क्षणः भारतीय-क्रिकेट-विकासे महत्त्वपूर्णं सोपानम् इति मन्यते, यः परवर्ती-वंशेभ्यः प्रेरणास्रोतः जातम्।

अद्यापि चत्वारिंशत्-वर्षानन्तरं अपि लॉर्ड्स-विजयः भारतीय-क्रिकेट-प्रेमिणां स्मृतिषु जीवितः अस्ति तथा भारतीय-क्रिकेटक्रीडाया: गौरवपूर्णेषु अध्यायेषु प्रमुखस्थानं धारयति।

महत्त्वपूर्ण-घटनाचक्रम्

१२४६ — नसिरुद्दीनमुहम्मदशाह: दिल्ली-राज्यस्य सिंहासने आरूढः।१८२९ — ब्रिटेन-देशे ऑक्सफोर्ड-केम्ब्रिज-विश्वविद्यालययोः मध्ये प्रथम-नौका-प्रतियोगिता सम्पन्ना।१८४८ — न्यूयॉर्क-शिकागो-नगरयोः मध्ये प्रथम-तारसञ्चार-सम्बन्धः आरब्धः।१९३१ — नॉर्वे-देशेन पूर्व-ग्रीनलैण्ड-प्रदेशः अधिकृतः।१९३४ — सोवियत-संघ-रोमानिया-देशयोः मध्ये राजनयिक-सम्बन्धानां पुनःस्थापनम्।१९४० — इटली-द्वारा द्वितीय-विश्वयुद्धे फ्रान्स-ग्रेटब्रिटेन-विरुद्धं युद्ध-घोषणा कृता।१९४६ — इटली-देशः राजतन्त्रस्य समाप्त्यनन्तरं गणतान्त्रिक-राष्ट्रत्वं प्राप्तवान्।१९६६ — महाराष्ट्र-राज्यस्य नासिक-प्रदेशात् वायुसेनायाः ‘मिग’ युद्धविमानानां उत्पादनम् आरब्धम्।१९७१ — अमेरिका-देशेन चीन-देशस्य २१-वर्षीयं व्यापार-प्रतिबन्धं समाप्तम्।१९७२ — मुम्बई-नगरस्य मडगाँव-बन्दरात् पूर्ण-वातानुकूलित-नौकायाः ‘हर्षवर्धन’-नामकस्य जलावतरणम्।१९८३ — ब्रिटेन-देशे मार्गरेटथैचर: पुनः प्रधानमन्त्री अभवत्।१९९९ — जोसरामोसहोर्ता-नामकः इण्डोनेशियाई-स्वतन्त्रता-समर्थकः २३-वर्षानन्तरं स्वदेश-प्रत्यागमनं घोषितवान्।१९९९ — जिनेवा-नगर्यां अन्ताराष्ट्रिय-श्रम-सम्मेलनस्य आरम्भः।२००१ — नेपाल-नरेश-हत्याकाण्डस्य अन्वेषण-अवधिः चतुर्दिनपर्यन्तं वर्धिता, बर्लुस्कोनी इटली-प्रधानमन्त्री नियुक्तः।२००२ — संयुक्त-राष्ट्र-संस्थायाः विश्व-खाद्य-सम्मेलनं रोम-नगर्यां सम्पन्नम्।२००३ — नासा-संस्थायाः मंगलयान-रोवरः प्रक्षिप्तः।२००५ — भारत-श्रीलङ्का-देशयोः मध्ये शिक्षा-समुदाय-विकास-सम्बद्धयोः सन्धिद्वयं हस्ताक्षरितौ।

२००८ — ५४तम-राष्ट्रीय-चलचित्र-पुरस्कारेषु ‘लगे रहो मुन्नाभाई’ सर्वोत्तम-लोकप्रिय-चलचित्ररूपेण सम्मानितम्।२००८ — केन्द्रसर्वकारेण तिसृषु सेनासु ‘एकीकृत-अन्तरिक्ष-कोष्ठः' घोषितः।

जन्म

१८८८ — बलराज: भल्ला, क्रान्तिकारी।

१८९० — गोपीनाथ: बोरदोलोई, असमस्य प्रथम-मुख्यमन्त्री।

१९०६ — दामोदर: मेनन, स्वतन्त्रता-संग्रामी।

१९०६ — रूपकुमार: राठौर:, हिन्दी-चित्रगान-गायकः।

१९२१ — शिवदीनराम: जोशी, कविः।

१९२१ — राजकुमारफिलिप: (एडिनबर्ग-ड्यूकः)।

१९३१ — एम. एस. गोपालकृष्णन, वायलिन-वादकः।

१९३८ — राहुलबजाज:, उद्योगपति:।

१९५५ — प्रकाश: पादुकोण:, बैडमिंटन-क्रीडक:।

१९५८ — अनूप: सेठी, साहित्यकारः।

१९८१ — देवेन्द्र: झाझरिया, भारतीय-अथलीटक्रीडक:।

निधनम्

१९५७ — भाईवीरसिंह:, पंजाबी-कविः।

१९८७ — जीवन, हिन्दी-चलचित्र-अभिनेता।

२०१९ — गिरीशकर्नाड:, नाटककारः एवं चलचित्र-कलाकारः।

२०१९ — आर. वी. जानकीरमन, पुदुचेरी-पूर्व-मुख्यमन्त्री।

महत्त्वपूर्ण-अवसराः

विश्व-भूगर्भ-जल-दिवसःविश्व-नेत्रदान-दिवसः

Hindusthan Samachar / Divya Ranjan