Enter your Email Address to subscribe to our newsletters

कौशाम्बी और प्रयागराज बनेंगे खाद्य प्रसंस्करण शिक्षा एवं शोध के राष्ट्रीय केंद्र
युवाओं, किसानों और महिला समूहों के लिए खुलेंगे नए अवसर, यूपी में आएगा निफ्टेम
लखनऊ, 09 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः केशवप्रसादमौर्यस्य मनसि स्थितायाः अभिलाषायाः अनुरूपं प्रदेशे खाद्यप्रसंस्करणक्षेत्रस्य नूतनगत्यर्थं महत्त्वपूर्णा पहल आरब्धा। उपमुख्यमन्त्रिणः मौर्यस्य निर्देशानां क्रमेषु राष्ट्रियखाद्यप्रौद्योगिकीउद्यमिताप्रबन्धनसंस्थानस्य कुण्डलीऔद्योगिकक्षेत्रे सोनीपते (हरियाणा) स्थितस्य प्रतिनिधिमण्डलेन उत्तरप्रदेशे निफ्टेमस्य उपग्रहैककस्य स्थापनासम्बन्धे मङ्गलवासरे महत्त्वपूर्णः विचारविमर्शः कृतः।
निफ्टेम इत्यस्य प्रतिनिधी प्रो प्रभातकुमारनेमा (डी.एस्.डब्ल्यू.) तथा डा. नितिनकुमारः बी.एल्. मीणा, उद्यानखाद्यप्रसंस्करणविभागस्य उत्तरप्रदेशशासनस्य अपरमुख्यसचिवेन सह भेंटां कृतवन्तौ। उपवेशने प्रदेशे खाद्यप्रसंस्करणोद्योगानां प्रोत्साहनाय, नवाचाराधारितप्राविधिकदक्षमानवसंसाधननिर्माणाय तथा युवजनानां कृते रोजगारोन्मुखशिक्षाप्रदानार्थम् आर फ्रैक (क्षेत्रीयखाद्यविश्लेषणकेन्द्रम्) तथा राजकीयखाद्यप्रसंस्करणप्रौद्योगिकीसंस्थानं निफ्टेमस्य उपग्रहैककरूपेण विकसितुं सम्मतिः जाता।
अस्य विषये खाद्यप्रसंस्करणविभागस्य निफ्टेमस्य च मध्ये शीघ्रमेव मेमोरेंडम् ऑफ अण्डरस्टाण्डिङ्ग् (एम्.ओ.यू.) सम्पादितं भविष्यति। प्रस्ताविते संस्थाने स्नातक, परास्नातक, पीएच्.डी., अनुसंधानकार्यक्रमैः सह अल्पकालिकाः तथा एकवर्षीयाः डिप्लोमापाठ्यक्रमाः अपि सञ्चालिताः भविष्यन्ति।
उपमुख्यमन्त्रिणः केशवप्रसादमौर्यस्य मनसि स्थितायाः अभिलाषायाः अनुरूपं जनपदे कौशाम्ब्याम् निफ्टेमस्य उपकेन्द्रस्य तथा प्रयागराजे निफ्टेमस्य स्थापनार्थमपि सम्मतिः प्रदत्ता। अनेन प्रदेशस्य युवजनाः, उद्यमिनः, कृषकाः, महिलाः, स्वसहायतासमूहाः, अशासकीयसङ्गठनानि (एनजीओ), राष्ट्रियग्रामीणाजीविकामिशन इत्यस्य तथा उत्तरप्रदेशराज्यग्रामीणाजीविकामिशन इत्यस्य लाभार्थिनश्च खाद्यप्रसंस्करणक्षेत्रे प्रशिक्षणम्, प्राविधिकसहायतां तथा जीविकायाःनूतनान् अवसरान् प्राप्स्यन्ति। एषा आरंभिका प्रदेशस्य आर्थिकविकासस्य आत्मनिर्भरतायाश्च दिशि मीलस्तम्भवत् सिद्धा भविष्यति।
निफ्टेमस्य प्रतिनिधिभिः आर फ्रैक तथा राजकीयखाद्यप्रसंस्करणप्रौद्योगिकीसंस्थाने उपलब्धायाः आधारभूतसंरचनायाः, प्रयोगशालानां तथा अन्यसुविधानां विस्तृतं निरीक्षणं कृतम्। निरीक्षणकाले संस्थानस्य उपलब्धव्यवस्थाः निफ्टेमकेन्द्रस्य सञ्चालनार्थम् उपयुक्ताः इति प्राप्तम्।
राजकीयखाद्यप्रसंस्करणप्रौद्योगिकीसंस्थानस्य व्याख्यानकक्षे आयोजिते उपवेशने बी.एल्. मीणा, उद्यानखाद्यप्रसंस्करणविभागस्य उत्तरप्रदेशशासनस्य अपरमुख्यसचिवः, सृष्टिधवन, संयुक्तनिदेशिका (प्रशासनम्), डा. एम्.पी. सिंह, संयुक्तनिदेशकः (खाद्यप्रसंस्करणम्), डा. हरीशकुमारः, आर फ्रैकस्य निदेशकः, विभागीयाधिकारिणः, कर्मचारिणः तथा छात्रच्छात्राश्च उपस्थिताः आसन्। उपवेशने निफ्टेम इत्यस्य भाविकार्ययोजनायाः विषये विस्तृता चर्चा अभवत्।
अस्मिन् अवसरे प्रो प्रभातकुमारनेमेन सूचना प्रदत्ता यत् आर फ्रैक तथा राजकीयखाद्यप्रसंस्करणप्रौद्योगिकीसंस्थाने शीघ्रमेव पीएच्.डी. तथा डिजर्टेशनाधारितानि अनुसंधानकार्याणि अपि प्रारम्भानि भविष्यन्ति, येन प्रदेशे खाद्यप्रसंस्करणक्षेत्रे अनुसंधानस्य नवाचारस्य च नूतना दिशा प्रदास्यते। प्रोफेसर प्रभातकुमारनेमा तथा डा. नितिनकुमारः पुष्पगुच्छप्रदानेन सम्मानितौ।
---------------
Hindusthan Samachar / Dheeraj Maithani