Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०९ जूनमासः (हि.स.)। भारतं अद्य विश्वस्य शीर्ष-पञ्च-अर्थव्यवस्थासु समाविष्टम् अस्ति तथा प्रमुख-वैश्विक-अर्थव्यवस्थानां तुलनायां देशस्य आर्थिक-विकास-दरः अधिक-तीव्रा वर्तते। सर्वकारस्य दूरदर्शि-नीतीनां व्यापक-आर्थिक-संशोधनानां च परिणामस्वरूपं भारतं वैश्विक-निवेशकानां कृते आकर्षक-निवेश-गन्तव्यरूपेण उद्भूतम् अस्ति। देशे प्रत्यक्ष-विदेशी-निवेशस्य रूपेण प्रायः ९५ बिलियन-अमेरिकी-डॉलर-परिमितः निवेशः प्राप्तः अस्ति।
एते महत्त्वपूर्णा: विषया: भारत-सर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयस्य उद्योग-संवर्धन-आन्तरिक-व्यापार-विभागस्य संयुक्त-सचिवः जयप्रकाश-शिवहरे-महोदयः पत्रकार-सम्मेलने उक्तवान्। भारत-सर्वकारस्य गौरवशाली-द्वादश-वर्ष-पूर्णतायाः उपलक्ष्ये देशव्यापी-सञ्चाल्यमानस्य विशेष-अभियानस्य अन्तर्गतं लखनऊनगरस्य गोमतीनगर-स्थिते पिकअप-भवने “एफडीआई तथा निवेश-प्रोत्साहनम्” इति विषये एतत् पत्रकार-सम्मेलनं आयोजितम् आसीत्।
अस्मिन् अवसरे भारत-सर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयस्य उद्योग-संवर्धन-आन्तरिक-व्यापार-विभागस्य संयुक्त-सचिवः जयप्रकाश-शिवहरे-महोदयः, उत्तरप्रदेश-सर्वकारस्य अवस्थापना-औद्योगिक-विकास-विभागस्य सचिवः तथा इन्वेस्ट-यूपी-संस्थायाः मुख्य-कार्यपालक-अधिकारी विजय-किरण-आनन्द-महोदयः (आईएएस), पत्र-सूचना-कार्यालयस्य निदेशकः दिलीप-कुमार-शुक्ल-महोदयः च मुख्य-वक्तृरूपेण उपस्थिताः आसन्।
संयुक्त-सचिवः जयप्रकाश-शिवहरे-महोदयः माध्यम-प्रतिनिधीन् सम्बोधयन् विकसित-भारत-निर्माणे निवेश-प्रोत्साहनस्य, औद्योगिक-विकासस्य तथा व्यापार-सुगमतायाः भूमिकायाः विषये विस्तरेण प्रकाशम् अकरोत्। तेन उक्तं यत् भारतम् अद्य विश्वस्य शीर्ष-पञ्च-अर्थव्यवस्थासु गण्यते तथा प्रमुख-वैश्विक-अर्थव्यवस्थानां तुलनायां देशस्य आर्थिक-विकास-दरः अधिक-तीव्रा अस्ति। तेन उक्तं यत् सर्वकारस्य दूरदर्शि-नीतीनां व्यापक-आर्थिक-सुधाराणां च परिणामस्वरूपं भारतं वैश्विक-निवेशकानां कृते आकर्षक-गन्तव्यरूपेण अभवत्। तेन सूचितं यत् देशे प्रत्यक्ष-विदेशी-निवेशस्य रूपेण प्रायः ९५ बिलियन-अमेरिकी-डॉलर-परिमितः निवेशः प्राप्तः अस्ति।
संयुक्त-सचिवेन उक्तं यत् गत-द्वादश-वर्षेषु “व्यवसाय-करणस्य सुगमता” उन्नेतुं अनेकाः महत्त्वपूर्णाः सुधाराः कृताः। तेन उक्तं यत् डीपीआईआईटी-विभागेन उद्योगानां कृते प्रक्रियाः सरलाः पारदर्शिन्यः च कृताः, यस्य परिणामस्वरूपं देशे निवेशस्य तथा नव-उद्यमानां (स्टार्टअप्स) सुदृढ-परितन्त्रस्य विकासः अभवत्। शिवहरे-महोदयः अवदत् यत् अद्य भारतं केवलं स्वदेशीय-नव-उद्यमानां कृते एव न, अपितु विश्वभरस्य नव-उद्यमानामपि कृते नूतन-अवसराणां केन्द्रं भवति।
तेन “जन-विश्वास-अभियानस्य” अन्तर्गतं कृतानां सुधाराणां उल्लेखः कृतः। तेन उक्तं यत् जन-विश्वास-१ तथा जन-विश्वास-२ इत्यनयोः माध्यमेन अनेके नियमाः प्रक्रियाश्च सरलाः कृताः, येन उद्योगानां महती सुविधा अभवत्। केन्द्र-सर्वकारस्य द्वादश-वर्ष-पूर्णतायाः अवसरे अधुना “जन-विश्वास-३” इत्यस्य दिशि अपि प्रयत्न: आरब्ध: अस्ति, येन उद्योगानां कृते अधिकम् अनुकूलं वातावरणं निर्मास्यते।
औद्योगिक-विकासस्य विषये तेन उक्तं यत् औद्योगिक-गलियारा-योजनायाः सकारात्मकाः परिणामाः प्राप्ताः सन्ति। अस्यैव क्रमस्य अन्तर्गतं अस्मिन् वर्षस्य वित्तविवरणे देशव्यापि १०० नूतन-औद्योगिक-नगराणां विकासस्य ऐतिहासिकः निर्णयः कृतः। एष: प्रयत्न: विनिर्माण-क्षेत्रस्य विकासाय, रोजगार-सृजनाय तथा क्षेत्रीय-विकासाय अपि प्रोत्साहनं दास्यति।
वैश्विक-व्यापारस्य विषये चर्चां कुर्वन् संयुक्त-सचिवः शिवहरे-महोदयः अवदत् यत् गत-पञ्च-वर्षेषु भारतेन अभिलेखनीयाः नव मुक्त-व्यापार-सन्धि: (एफटीए) सम्पन्नाः, येषां परिधौ विश्वस्य ३८ देशाः अन्तर्भवन्ति। तेन उक्तं यत् एतेषां सन्धिनां प्रवर्तनानन्तरं शुल्क-न्यूनीकरणस्य च पश्चात् सर्वकारस्य ध्यानं भारतीय-उत्पादानां व्यापारिणां च कृते अन्ताराष्ट्रिय-विपणिषु नूतन-अवसराणां अधिकतम-लाभ-सुनिश्चितीकरणे केन्द्रितम् अस्ति।
तेन उक्तं यत् सर्वकारस्य पारदर्शि-निवेशानुकूल-नीतीनां कारणात् अधुना देशस्य प्रत्येकस्मिन् राज्ये प्रत्यक्ष-विदेशी-निवेशे निरन्तर-वृद्धिः दृश्यते, येन सन्तुलित-समावेशी-विकासः अपि सुदृढः भवति।
संयुक्त-सचिवेन सूचितं यत् भारत-सर्वकारस्य मन्त्रालयं देशस्य विविध-राज्येषु उद्योग-जगतः प्रतिनिधिभिः सह निरन्तरं संवादं स्थापयति तथा तान् सर्वकारस्य नूतन-नीतीनां, सुधाराणां, निवेश-सम्बद्ध-अवसराणां च विषये अवगतं करोति। जयप्रकाश-शिवहरे-महोदयः अवदत् यत् निवेश-प्रोत्साहनस्य, व्यापार-सुगमतायाः, औद्योगिक-सुधाराणां तथा वैश्विक-सहभागितानां माध्यमेन भारतं विकसित-राष्ट्रत्वस्य दिशि द्रुतगत्या अग्रे सरति तथा अग्रिम-वर्षेषु विश्व-अर्थव्यवस्थायां अधिकं सशक्तां भूमिकां निर्वहिष्यति।
Hindusthan Samachar / Divya Ranjan