Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, ०९ जूनमासः (हि.स.)। झारखण्डराज्यस्य राज्यपालः सन्तोषकुमार-गङ्गवार-महोदयः मङ्गलवासरे धरती-आबा भगवत: बिरसा-मुण्डा-महोदयस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं अर्पितवान्। अस्मिन् अवसरे सः राँचीस्थितं लोकभवनं तथा बिरसा-चतुष्पथं गत्वा बिरसा-मुण्डा-महोदयस्य प्रतिमायाः माल्यार्पणं कृत्वा तस्य संघर्षं, त्यागं तथा जनजातीय-समाजस्य उत्थाने दत्तं योगदानं स्मृतवान्।
लोकभवने आयोजिते श्रद्धाञ्जलि-कार्यक्रमे राज्यपालः अवदत् यत् भगवता बिरसा-मुण्डा-महोदयेन जनजातीय-समाजस्य उत्थानाय, स्वाभिमानाय तथा राष्ट्रहिताय स्वजीवनं पूर्णतः समर्पितम्। सः ब्रिटिश-शासनस्य विरुद्धं संघर्षं कृत्वा आदिवासी-समाजं स्वाधिकार-रक्षणाय तथा अस्मितारक्षणाय सङ्घटितवान्। तस्य अदम्य-साहसं, त्यागः, संघर्षश्च अद्यापि सर्वेषां कृते प्रेरणास्रोतः अस्ति।
ततः राज्यपालः बिरसा-चौकं गत्वा तस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धासुमनानि अर्पितवान्। सः अवदत् यत् धरती-आबा बिरसा-मुण्डा-महोदयस्य जीवनं संघर्षस्य, सेवायाः तथा समर्पणस्य अद्वितीया गाथा अस्ति।
राज्यपालः उक्तवान् यत् तेन अल्पजीवने एव यः साहसः तथा दृढता अन्याय-शोषण-विरुद्धं प्रदर्शिता, सा भारतीय-इतिहासस्य गौरवशाली अध्यायः अस्ति। तस्य नेतृत्वे सञ्चालिताः आन्दोलनाः न केवलं जनजातीय-समाजाय नूतनां दिशा दत्तवन्तः, अपितु स्वातन्त्र्य-सङ्ग्रामस्य चेतनाम् अपि सुदृढीकृतवन्तः।
सः अवदत् यत् भगवान् बिरसा-मुण्डा-महोदयस्य आदर्शाः, विचाराः तथा जीवन-मूल्यानि अग्रिनां वंशानां मार्गदर्शनं करिष्यन्ति। तस्य जीवनात् प्रेरणां गृहीत्वा सर्वैः वञ्चित-दुर्बल-पृष्ठ-वर्गाणां उत्थानाय कार्यं कर्तव्यम् तथा राष्ट्रनिर्माणे सक्रिय-सकारात्मक-भूमिका निर्वहणीया।
कार्यक्रमे उपस्थितैः जनैः अपि भगवत: बिरसा-मुण्डा-महोदयस्य योगदानं स्मृत्वा तस्मै श्रद्धाञ्जलिः अर्पिता तथा तस्य मार्गे चलनस्य संकल्पः कृतः।
Hindusthan Samachar / Divya Ranjan