मुख्यमंत्रिणा कृतं सिमडेगाजनपदस्य उपायुक्तेन सह मेलनम्
रांची, 09 जूनमासः (हि.स.)। मुख्यमन्त्रिणा हेमन्त सोरेन इत्यनेन सह मङ्गलवासरे कांके रोड राँची स्थिते मुख्यमन्त्री आवासीयकार्यालये उपायुक्ता सिमडेगा कंचन सिंहः शिष्टाचारमेलनम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्रिणे तया निवेदितं यत् सिमडेगा जनपदे बिरस
मुख्यमंत्री सहित अन्य


रांची, 09 जूनमासः (हि.स.)।

मुख्यमन्त्रिणा हेमन्त सोरेन इत्यनेन सह मङ्गलवासरे कांके रोड राँची स्थिते मुख्यमन्त्री आवासीयकार्यालये उपायुक्ता सिमडेगा कंचन सिंहः शिष्टाचारमेलनम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्रिणे तया निवेदितं यत् सिमडेगा जनपदे बिरसा हरित ग्राम बागवानी योजनायाः अन्तर्गतं विविधाभिः महिला स्वयं सहायता समूहाभिः उत्पादिताः आम्रफलाः अन्ताराष्ट्रियविपण्यै उपलब्धीकृताः सन्ति। मुख्यमन्त्रिणः समक्षं तया सूचना प्रदत्ता यत् आम्रपाली आम्रफलस्य प्रथमा वाणिज्यनिर्यातखेप यूनाइटेड किंगडम लण्डन नगरं प्रति प्रेषिता अस्ति। जेएसएलपीएसस्य महिला जागृति तथा बेउरा फार्मर प्रोड्यूसर कम्पनी इत्येतयोः नेतृत्वे एषा उपलब्धिः कृषकाणां महिला नेतृत्वयुक्तानां एफपीओ संस्थानां च वैश्विकपरिचयस्य दिशि महत्त्वपूर्णं पदम् अस्ति। महिला समूहस्य प्रतिनिधयः मुख्यमन्त्रिणे सिमडेगा जनपदस्य आम्रपाली आम्रफलानि अपि उपायनरूपेण समर्पितवत्यः। अवसरे विधायक कल्पना सोरेन अपि उपस्थिता आसीत्। मुख्यमन्त्री हेमन्त सोरेनः जनपदप्रशासनस्य अस्याः पहलायाः प्रशंसां कुर्वन् उक्तवान् यत् राज्यसर्वकारः ग्रामीणार्थव्यवस्थायाः सुदृढीकरणाय महिला सशक्तीकरणाय च निरन्तरं प्रयतते। राज्यस्य कृषकेभ्यः श्रेष्ठमूल्यप्रदानं, राज्यस्य महिलाभ्यः नूतनपरिचयप्रदानं, कृषिनिर्यातस्य च नूतनगतिप्रदानम् राज्यसर्वकारस्य प्राथमिकतासु अन्तर्भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani