मंदिर ठाकुर द्वारकाधीश जी महाराजेन आरब्धस्य कमल तलाई इत्यस्य आयोजनम्
मथुरा, 09 जूनमासः (हि.स.)।मथुरानगरस्य प्रसिद्धमन्दिरस्य ठाकुरद्वारकाधीशस्य विधिमाध्यमप्रभारिणा राकेश तिवारी एडवोकेट इत्यनेन उक्तं यत् मन्दिरे सर्वेषां कार्यक्रमाणां निर्धारणं मन्दिरस्य गोस्वामिना श्रीश्री १०८ डॉक्टर वागीश कुमार जी महाराज कांकरोली न
कमल तलाई के आयोजन की मनोरम झांकी


मथुरा, 09 जूनमासः (हि.स.)।मथुरानगरस्य प्रसिद्धमन्दिरस्य ठाकुरद्वारकाधीशस्य विधिमाध्यमप्रभारिणा राकेश तिवारी एडवोकेट इत्यनेन उक्तं यत् मन्दिरे सर्वेषां कार्यक्रमाणां निर्धारणं मन्दिरस्य गोस्वामिना श्रीश्री १०८ डॉक्टर वागीश कुमार जी महाराज कांकरोली नरेश तृतीयपीठाधीश्वरेण कृतम् अस्ति।

एतस्यैव अन्तर्गतं अधिकमासोत्सवश्रृंखलायां मङ्गलवासरस्य सायंकाले ठाकुरजी शयनदर्शनेषु कमलतलायां विराजमानः अभवत् यस्य दर्शनं कृत्वा भक्ताः भावविभोराः अभवन्। अस्मिन् क्रमे सम्पूर्णमासपर्यन्तं विशेषमनोरथाः आयोजयिष्यन्ते।

बुधवासरे शयनदर्शनेषु भव्यपुष्पबङ्गलस्य दर्शनानि आयोजयिष्यन्ते। ये केचन भक्ताः स्वस्य आराध्यस्य कृते किमपि मनोरथम् आयोजयितुम् इच्छन्ति ते तत् कारयितुं शक्नुवन्ति।

अतः समस्तधर्मप्रेमिजनतायै निवेदनम् अस्ति यत् सर्वे दर्शनं कृत्वा पुण्यस्य भागिनः भवन्तु।

Hindusthan Samachar / Dheeraj Maithani