Enter your Email Address to subscribe to our newsletters

बेंगलूरुनगरम्, ०९ जूनमासः (हि.स.)। अखिलभारतीयकाङ्ग्रेससमिते: सचिवः कर्नाटक-राज्य-गारंटी-योजनानां क्रियान्वयन-समित्याः उपाध्यक्षः च आसीत् वरिष्ठकाङ्ग्रेसनेता सूरजहेगडे-महोदयस्य निधनात् काङ्ग्रेस-दले शोक-तरङ्गः व्याप्तः। तस्य निधनं प्रति काङ्ग्रेसस्य शीर्षनेतारः, कार्यकर्तारः समर्थकाश्च गहनं दुःखं प्रकटितवन्तः।
लोकसभायां प्रतिपक्षनेता राहुलगान्धी मङ्गलवासरे बेंगलूरुनगरं प्राप्तवान् तथा डॉलर-कॉलोनी-स्थिते सूरजहेगडे-महोदयस्य आवासं गत्वा तस्य पार्थिव-शरीरस्य अन्तिमदर्शनं कृतवान्। सः पुष्पाञ्जलिं अर्पयित्वा दिवङ्गतनेतारं श्रद्धाञ्जलिं दत्तवान् तथा शोकसन्तप्तपरिवारं प्रति संवेदनां प्रकटितवान्। सः परिजनेभ्यः मिलित्वा तान् अस्मिन् कठिनकाले धैर्यधारणाय सम्बलितवान्।
अस्मिन् अवसरे कर्नाटक-मुख्यमन्त्री डी.के.शिवकुमारः, पूर्वमुख्यमन्त्री सिद्धरमय्या, कर्नाटकप्रदेशकाङ्ग्रेससमितेः अध्यक्षः बी.के.हरिप्रसादः, एआईसीसी महासचिवः रणदीपसिंह: सुरजेवाला, के.सी.वेणुगोपालः इत्यादयः अनेके वरिष्ठनेतारः उपस्थिताः आसन्। सर्वैः नेतृभिः सूरजहेगडे-महोदयस्य योगदानं स्मृत्वा श्रद्धाञ्जलिः अर्पिता।
सूरजहेगडे-महोदयस्य राजनीतिकं सामाजिकं च जीवनं सक्रियं आसीत्। सः कर्नाटकस्य पूर्वमुख्यमन्त्रिणः दिवङ्गतस्य डी.देवराज अरसु-महोदयस्य दौहित्रः आसीत् तथा काङ्ग्रेस-सङ्घटने बहूनि महत्त्वपूर्णानि दायित्वानि निर्वुढवान्। सः एआईसीसी सचिवः, केपीसीसी उपाध्यक्षः तथा तमिलनाडु-पुदुच्चेरी-काङ्ग्रेसस्य प्रभारी इति रूपेण सङ्घटन-सुदृढीकरणे महतीं भूमिकां निर्वुढवान्।
उल्लेखनीयम् अस्ति यत् ०७ जूनमासे सूरजहेगडे-महोदयः आकस्मिक-हृदयाघातेन पीडितः अभवत्। तस्मै त्वरितं चिकित्सालये प्रवेशः कृतः, यत्र चिकित्सकैः तस्य जीवनरक्षणाय सर्वे प्रयासाः कृताः, किन्तु तस्य प्राणरक्षणं न शक्येत्। तस्य निधनवार्तया काङ्ग्रेस-कार्यकर्तृषु शोकः व्याप्तः।
सूरजहेगडे-महोदयः विशेषतः पृष्ठवर्ग-कल्याणे, श्रमिक-अधिकार-रक्षणे तथा सामाजिक-न्यायसम्बद्धेषु विषयेषु सक्रियः आसीत्। सामाजिक-समानतायाः वञ्चितवर्गाणां उत्थानाय च तस्य प्रयासाः काङ्ग्रेसनेतृभिः स्मर्यन्ते, येन तस्य योगदानं दीर्घकालं यावत् प्रेरणास्रोतः भविष्यति इति उक्तम्।
काङ्ग्रेसनेतृभिः उक्तं यत् सूरजहेगडे-महोदयस्य निधनं दलस्य समाजस्य च कृते अपूरणीयः क्षतिः अस्ति। तस्य विचाराः, सङ्घटनक्षमता तथा सामाजिक-कार्येषु समर्पणं सदा स्मर्यते।
Hindusthan Samachar / Divya Ranjan